________________
३५
'वादचतुष्कम्
किञ्च, प्रमाणपञ्चकाभाव किं ज्ञात सर्वज्ञाभावं साधयेदज्ञातो वेति कलहंसयुगलमिव विमलविकल्पयुगलमवतरति । यदि ज्ञातः कुतो ज्ञप्तिरिति वाच्यम् । अपरप्रमाणपञ्चकाभावात् चेत् सोऽपि कुतो ज्ञात इति निर्लज्ज कुडिनीवा नवस्था पश्चाद्धावन्ती दुर्निवारा स्यात् । अथ प्रमेयाभावात् प्रमाणाभावस्तर्हि प्रमेयाभावे [ प्रमाणाभावः ] प्रमाणाभावे च प्रमेयाभाव इति समुद्रोदकवद् दुस्तरमितरेतराश्रयत्वं - समापन पद्येत । अथाज्ञातस्तहिं अविशेषेणा विद्वदङ्गनादीनामपि सर्वज्ञाभावं गमयेन्न चैतत् गृहीतसङ्केतस्यैव तदभावप्रतिपत्त्यभ्युपगमादिति । स्वरूपस्यापि ज्ञातुमशक्यत्वात् स्वरूपासिद्धश्च । तथा खरविषाणस्यापि दृष्टान्तत्वेनोपन्यस्तस्यापरदृष्टान्तमन्तरेणासिद्धेरन्यदृष्टान्तोपन्यासापत्तिस्तत्राप्ययमेव वृत्तान्त इत्यपर्यन्ताऽनवस्था स्यात् ।
अथ स्वत एव खरविपाणस्याभावसिद्विस्तर्हि तद्वत् सर्वज्ञस्यापि "सा भविष्यति । किमनर्थमूलेन दृष्टान्तोपन्यासेनेति । तदेवं प्रत्यवयव विचार्यमाण साधनं जीर्णकुटीरमिव विशीर्यत इत्युपेक्षामर्हति ।
किञ्च, किं भवत एव तद्ग्राहक प्रमाणपञ्चकाभावः किं वा सर्वेषां प्रमातृणामिति विकल्पद्वय भीमार्जुनद्वयमिव प्रतिपक्षपक्षविक्षोभदक्षमुपतिष्ठते । यदि भवतः सिद्धं साध्यते, भवतो महामोहान्ध्याभिभूतत्वाद् यद्वचनाच्च तदपनोदो भवति तस्य च भगवत' सर्वज्ञस्यानु(न)भ्युपगमात् । अथ सर्वेषा तदसिद्धम्, तस्य हि एतद्वक्तुं युज्यते यस्य भुवनोदरान्तरवर्तिप्राणिपरिषच्चेतोवृत्ति प्रत्यक्षा भवति न भवतः । तत्प्रत्यक्षीकरणे च तवैव सर्वज्ञत्वप्राप्तिरिति सिद्धं न समीहितम् । य एव राधावेधं विधत्ते स एवाजैन इति ।
अथानुमानान्तरं सङ्गीर्यते - यो य पुरुषः स सर्वज्ञो न भवति पुरुषत्वादस्मदादिवदित्येतदपि नदी स्रोतोऽन्तःप्र (प्ल )वत कुशंकाशावलम्बनप्रायम् । पुरुषत्वस्यैकान्तेनास्मदादिसादृश्यसाधकत्वानुपपत्तेः । तथाहि पुरुषत्वाविशेषेऽपि मूर्खविपश्चिदादिभेदः सलक्ष्यते । तद्वत् कश्चित् सर्वज्ञोऽपि भवष्यति ।
अथ विकल्पाभ्यां प्रत्यवतिष्ठेथा. - स सर्वं जानन् किमिन्द्रियद्वारेण जानाति तदन्तरेण वा । प्रथमपक्षेऽक्षाणां सन्निहितार्थग्राहित्वान्मकराकरादीनां च व्यवहितत्वादज्ञाने सर्वज्ञत्वहानि: अदृष्टमुद्गरक (रपात) कल्पा स्यात् । द्वितीये त्वन्धबधिरादीनामपि सर्वज्ञत्वप्राप्तिरित्येतदप्यनभ्युपगमवज्रपात निर्दलितमस्तकत्वानोत्थातुमुत्सहते । तस्यातीन्द्रियज्ञानाभ्युपगमात् । यो य पुरुषस्तस्यातीन्द्रिय [ज्ञानं ] नास्ति पुरुषत्वादस्म