________________
अज्ञातकर्तृकम् दादेरिवेति चेत् तहिं तावकेनानुमानेन किमिदानी तथाभाव साध्यते किं वा कालत्रयेऽपीति दन्तिदन्तयुगलमिवामल विकल्पद्वयमापतति । यद्यधुना, सिद्धं साध्यते । कालत्रये चासिद्धम् , कालत्रयस्याप्रत्यक्षत्वात्, कस्मिश्चित् काले तथाभूतस्यापि सम्भवात् ।
अथ यो यः कालः स सोऽतीन्द्रियज्ञानवच्छून्यः कालत्वादिदानींतनवदित्यनुमानप्रत्यवस्थानं कुर्वीथास्तहि यो यः कालः स मत्त्वत्पितामहादिशून्यः कालत्वादिदानींतनकालवदिति नास्माकमपि सर्वोत्तरमतिदुर्लभं (2) स्यादित्यनिष्टप्राप्तिः । अभ्युपगमे च भवतो निर्हेतुकं जन्म स्यात् । ____अथैवं पर्यनुयुञ्जीथाः किमेते भावा इन्द्रियज्ञानग्राह्यस्वभावा उतातीन्द्रिज्ञानग्राह्यस्वभावाः । आद्यपक्षे प्रतिज्ञाहानि. भवद्विवक्षितस्यातीन्द्रियज्ञातृत्वेनाभ्युपगमात् । द्वितीयपक्षे तु प्रतीतिवाधाऽक्षज्ञानेन तेषां वेद्यमानत्वात् । एतदपि जलभृतकुम्भस्योदकविन्दुरिव बहि प्लबते । तेपामनेकत्वभावत्वेनातीन्द्रियज्ञानेनापि ग्राह्यमाणत्वात् । अनेकस्वभावत्वं चेन्द्रियज्ञानेनापि भेदेन ग्रहणदर्शनात् । यदि पुनः सर्वथैकस्वभावा भावा भवेयुः तदेन्द्रियज्ञानेनापि भेदो न स्यात् । स च दृश्यते । एकस्मिन्नेव वस्तुनि मन्दचक्षुषा संस्थानमात्रस्य, विमललोचनेन तुतदधिकस्य रक्तत्वादे प्रतिपत्तेरिति । अतीन्द्रियज्ञानसद्भावश्चाविसंवादिज्योति शास्त्रादिप्रणयनान्यथानुपपत्त्या निश्चीयते । तदन्तरेण तथाविधस्यानुपपत्तेरिति ।
किञ्च, सर्वज्ञाभावोऽपि कथ प्रमाणपञ्चकेन गृह्यत इति चिन्त्यम् । प्रत्यक्षस्य सदिन्द्रियविषयत्वेनाभावग्रहणाभावाद् भावे चाभावप्रमाणवैयर्थं तेनैव तद्विषयस्य परिछिन्नत्वात् । अनुमानस्यापि लिगलिनिग्रहणसम्बन्धस्मरणोत्तरकालप्रवृत्तेरभावस्य तुच्छत्वेन भावतोऽभावात् , भावे वा अभावत्वविरोधात् । उपमानस्याप्युभयसद्भावे भावात् सर्वज्ञस्य चाभावरूपेणाभ्युपगमात् । भावाभावयोश्चोपमानोपमेयाभावात् । भावरूपत्वे च विद्यमानत्वेनैव ग्रहणात् खरविषाणवत् सर्वज्ञः सर्वज्ञ]वद्दा खरविषाणमित्युपमानोपन्यासः प्रलापमात्रफल एव स्यात् । गब्दस्यापि विधिसाधकत्वेनैव प्रमाणताभ्युपगमात् । यथा 'अग्निहोत्रं जुह्या(हुया)त् स्वर्गकाम' इत्यादे । न च सर्वज्ञाभावमन्तरेण कश्चिदर्थो नोपपद्यते येन तदभाव स्यादित्यर्थापत्तेरविनाभावसाधकत्वमिति । अत एव साधकबाधकप्रमाणाभावात् संशयोऽस्त्विति चेन्न साधकप्रमाणस्य विद्यमानत्वात् । तथाहि-अस्ति कश्चिदतीन्द्रियार्थसाक्षात्कारी । अनुपदेशालिगाविसंवादिविशिष्टदिग्देशकालप्रमाणात्मकचन्द्रादिग्रहणाद्युपदेशदातृत्वात् । यो यद्विषयेऽनुपदेशालिङ्गाविसंवादाद्युपदेशदासामतशालूपत्कारीदृष्टो (धुपदेशदायी