________________
वोदकम्
स तत्साक्षात्कारो दृष्टो) यथाऽम्मदादिः स्वयमनुभूतेऽर्थेऽनुपदेशालिङ्गाविसंवादाद्युपदेश दायी तत्साक्षात्कारी । अनुपदेशालिङ्गा विसंवादादि विशिष्ट दिग्देशकालप्रमाणात्मकचन्द्रा दिग्रहाद्युपदेशदायी च कश्चित्तस्मात् तत्साक्षात्कारी । न चायमसिद्धो हेतुः । अनुपदेगा लिङ्गा विसंवाद्युपदेशस्यास्मदादिष्वपि अविगानेन विद्यमानत्वान्नाप्यनैकान्तिकस्तथाविधोपदेशदायित्वस्यासाक्षात्कारित्वतः सर्वथा निवृत्तेः, ततो व्यावृत्तत्वादेव च न विरुद्ध इति । एवंभूतश्च सर्वज्ञ एव ।
३७
तथाविधोपदेशस्य वृद्धपरम्परातः समायातत्वादसिद्धं तत्साक्षात्कारित्वमिति चेन्न तेषां रागादिमत्त्वेन तथाविधोपदेगदानाभावात् । अत एव कचिदन्यथा प्ररूपणात् । दृश्यन्ते च कचित् परप्रतारकाः पुंमासोऽन्यथा विचिन्त्यान्यान्यगब्दप्रयोगं कुर्वाणाः–' नद्यास्तीरे गुडशकटं पर्यस्तं धावत डिम्भकाः' इत्यादिवत् । तथाप्यतान्त(प्यान्तर) रागादिविश्लेषोऽस्यायुक्त' पुरुपत्वादिति चेन्नात्यन्तोच्छेदसद्भावे प्रमाणोपपत्ते । तथा हि-रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते । उत्कर्षापकर्षकत्वात् । प्रदीपज्वालावत् । यथा हि वातादिना प्रदीपादेरत्यन्तोच्छेदो भवत्येवं कचित् पुंसि विपक्षभावतो रागादीना निर्मूलोच्छेदो भविष्यति । यदि च तथाविधः पुरुषो नाङ्गीक्रियते तदा रागादिमता वेदार्थस्य विज्ञातुमशक्यत्वात् वेदस्य स्वत एव स्वकी - यार्थापरिज्ञानान्न वेदार्थे याथात्म्यनिश्चयः । तथा 'अग्निहोत्रं जुह्या (हुया ) त् स्वर्गकाम" इत्यादेर्वाक्यस्य 'मांस भक्षयेत् स्वर्गकामः' इत्यप्यर्थः कस्मान्न [भ]वति निया[म]काभावात् । भावे च नियत पौरुषेयतासिद्धिः । वेदस्य स्वत एव प्रमाणान्न पौरुषेयत्वमिति चेन्न पदवाक्यरचना विशिष्टस्यापौ रुपेयत्वासिद्धे । यत् पदवाक्यरचनाविशिष्टं शास्त्रं [तत् पौरुपेयम् ] । तथाभूतं चैतत् । तस्मात् पौरुषेयमेतत् । एवं प्रमाणपञ्चकाभावस्याभावसाधकत्वानुपपत्ते
प्रमाणपञ्चक यत्र वस्तुरूपे न जायते ।
वस्त्वसत्तावबोधार्थं तत्राभावप्रमाणता ॥ [ श्लो० वा० अभाव १] इति शब्दगुडमात्रं विवक्षितार्थरहितत्वात् । न च प्रमाणपञ्चकाभावो लोकेऽप्येकान्तेनाभावं साध[य]ति । समुद्रोदकसिकतादिपरिसङ्ख्यानेन व्यभिचारात् ।
अथेत्थमभिधत्से किमिदं सर्वज्ञविज्ञानं निराकारमाहोस्वित् साकारम् । यदि निराकार न तेनार्थपरिच्छेदः । साकार चेत् तदपि किं स्वाकारमुतार्थाकारमिति विकल्पौ राग-द्वेपाविवा[[भ] प्रेतार्थव्याधातकारानुधावत । यदि स्वाकारं पूर्वो दोष. । अर्थाकारं चेत् तर्ह्यर्थानामानन्त्याद् भिन्नजातीयत्वाच्च तच्छब
7