Book Title: Collection Of Jaina Philosophical Tracts Author(s): Nagin J Shah Publisher: L D Indology AhmedabadPage 64
________________ अज्ञातकर्तृकम् दादेरिवेति चेत् तहिं तावकेनानुमानेन किमिदानी तथाभाव साध्यते किं वा कालत्रयेऽपीति दन्तिदन्तयुगलमिवामल विकल्पद्वयमापतति । यद्यधुना, सिद्धं साध्यते । कालत्रये चासिद्धम् , कालत्रयस्याप्रत्यक्षत्वात्, कस्मिश्चित् काले तथाभूतस्यापि सम्भवात् । अथ यो यः कालः स सोऽतीन्द्रियज्ञानवच्छून्यः कालत्वादिदानींतनवदित्यनुमानप्रत्यवस्थानं कुर्वीथास्तहि यो यः कालः स मत्त्वत्पितामहादिशून्यः कालत्वादिदानींतनकालवदिति नास्माकमपि सर्वोत्तरमतिदुर्लभं (2) स्यादित्यनिष्टप्राप्तिः । अभ्युपगमे च भवतो निर्हेतुकं जन्म स्यात् । ____अथैवं पर्यनुयुञ्जीथाः किमेते भावा इन्द्रियज्ञानग्राह्यस्वभावा उतातीन्द्रिज्ञानग्राह्यस्वभावाः । आद्यपक्षे प्रतिज्ञाहानि. भवद्विवक्षितस्यातीन्द्रियज्ञातृत्वेनाभ्युपगमात् । द्वितीयपक्षे तु प्रतीतिवाधाऽक्षज्ञानेन तेषां वेद्यमानत्वात् । एतदपि जलभृतकुम्भस्योदकविन्दुरिव बहि प्लबते । तेपामनेकत्वभावत्वेनातीन्द्रियज्ञानेनापि ग्राह्यमाणत्वात् । अनेकस्वभावत्वं चेन्द्रियज्ञानेनापि भेदेन ग्रहणदर्शनात् । यदि पुनः सर्वथैकस्वभावा भावा भवेयुः तदेन्द्रियज्ञानेनापि भेदो न स्यात् । स च दृश्यते । एकस्मिन्नेव वस्तुनि मन्दचक्षुषा संस्थानमात्रस्य, विमललोचनेन तुतदधिकस्य रक्तत्वादे प्रतिपत्तेरिति । अतीन्द्रियज्ञानसद्भावश्चाविसंवादिज्योति शास्त्रादिप्रणयनान्यथानुपपत्त्या निश्चीयते । तदन्तरेण तथाविधस्यानुपपत्तेरिति । किञ्च, सर्वज्ञाभावोऽपि कथ प्रमाणपञ्चकेन गृह्यत इति चिन्त्यम् । प्रत्यक्षस्य सदिन्द्रियविषयत्वेनाभावग्रहणाभावाद् भावे चाभावप्रमाणवैयर्थं तेनैव तद्विषयस्य परिछिन्नत्वात् । अनुमानस्यापि लिगलिनिग्रहणसम्बन्धस्मरणोत्तरकालप्रवृत्तेरभावस्य तुच्छत्वेन भावतोऽभावात् , भावे वा अभावत्वविरोधात् । उपमानस्याप्युभयसद्भावे भावात् सर्वज्ञस्य चाभावरूपेणाभ्युपगमात् । भावाभावयोश्चोपमानोपमेयाभावात् । भावरूपत्वे च विद्यमानत्वेनैव ग्रहणात् खरविषाणवत् सर्वज्ञः सर्वज्ञ]वद्दा खरविषाणमित्युपमानोपन्यासः प्रलापमात्रफल एव स्यात् । गब्दस्यापि विधिसाधकत्वेनैव प्रमाणताभ्युपगमात् । यथा 'अग्निहोत्रं जुह्या(हुया)त् स्वर्गकाम' इत्यादे । न च सर्वज्ञाभावमन्तरेण कश्चिदर्थो नोपपद्यते येन तदभाव स्यादित्यर्थापत्तेरविनाभावसाधकत्वमिति । अत एव साधकबाधकप्रमाणाभावात् संशयोऽस्त्विति चेन्न साधकप्रमाणस्य विद्यमानत्वात् । तथाहि-अस्ति कश्चिदतीन्द्रियार्थसाक्षात्कारी । अनुपदेशालिगाविसंवादिविशिष्टदिग्देशकालप्रमाणात्मकचन्द्रादिग्रहणाद्युपदेशदातृत्वात् । यो यद्विषयेऽनुपदेशालिङ्गाविसंवादाद्युपदेशदासामतशालूपत्कारीदृष्टो (धुपदेशदायीPage Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193