Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 66
________________ ૮ अज्ञातकर्तृकम् लरूपप्राप्त्या नैकस्याप्यर्थस्य याथात्म्यग्रहणं स्यात् । नैतदपि चतुरचेतसि चारु चकास्ति । विज्ञानस्यार्थस्य ग्रहणाभ्युपगमात् । यदि ह्यर्था विज्ञाने स्वाकारमर्पयन्तीत्यभ्युपगम्यते तदेव दोषोऽनुपद्येत । यदा च विज्ञानमेवार्थग्राहकत्वेन पारणमिति (परिणमति) तदा दूषणं कथं स्यात् । तत्परिणामश्च वस्तुनोऽनेकस्वभावादन्यर्था (था) sर्थपरिच्छेदानुपपत्ते । तथाप्यतीतानागतार्थग्रहणमनुपपन्नमसत्त्वात् तेषामिति चेन्न सर्वथाऽसत्त्वानु ( न ) भ्युपगमात् । सत सर्वथाऽसत्त्वानापत्तेरसतश्चोत्पत्तिप्राप्तेः । तदा तेषामेव वर्तमानत्वात् । वर्तमाना एव हि भावास्तथापरिणामेनातीतादिव्यपदेशभाजो भवन्तीति । अन्यथा वर्तमानस्याप्यनुपपत्तिरिति भूत-भवत् - भविष्यत्सकलपदार्थतत्त्वावबोधक' सुव्यवस्थित सर्वज्ञ इति । ॥ सर्वज्ञव्यवस्थापकस्थलम् || * ३. चीवरस्थापकस्थलम् एगया अचेलभ होई सचेले आवि एगया । एयं धम्महियं नच्चा नाणी नो परिदेवए || [ उत्तरा० २.१३] इति महार्थ कर्मप्रवादपूर्वोद्धृतपरीषहाधीतम् । सम्यक्त्वज्ञानशीलानि तपतीह सिद्धये । तेषामुपग्रहार्थाय स्मृत चीवरधारणम् ॥ जटी कूर्ची शिखी मुण्डी चीवरी नग्न एव च । तप्यन्नपि तपः कष्ट मौयाद्विस्रो न शुद्धयति ॥ सम्यग्ज्ञानी दयावास्तु ज्ञानी यस्तप्यते तपः । नग्रश्धीवरधारी वा स सिद्ध्यति महामुनि ॥ इति वाचकवचनानूदित सचेलत्वमनुचित केचिदाहुस्तन्न । इह यो यदर्थी स न तन्निमित्तोपादानं प्रत्यनादृते । यथा घटार्थी मृत्पिण्डोपादान प्रति । चारित्रार्थिनश्च यतयस्तन्निमित्त च चोवरम् । न चास्यासिद्धत्वम् । तद्धि तस्य तदनिमिसा च तत्र तस्य बाधाविधायितया औदासीन्येन वा । न तावद्वाधाविधायितया, यतोऽसौ पञ्चमव्रतविघातकतया ससक्तिविषयतया दोषकारणत्वेन वा । यदि पञ्चमत्रतविघातकत्वेन तदपि कुतो ' युक्तित इति चेन्नन्वियं स्वतन्त्रा सिद्धान्ताधीना वा । यदि स्वतन्त्रा तर्हि 'सलोमा मण्डूकचतुष्पाचे ( पादे ) सति तता स्यात

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193