________________
श्रीमेरुतुङ्गसूरिसंहव्धः
2
तथा वेदा अपौरुपेया इत्ययुक्तम् । यत शास्त्रं वचनात्मकम्, वचनं च पुरुषताल्वोष्ठादिव्यापारं विना न काप्युपलभ्यते । अतोऽपौरुषेयत्वाभावान्न नित्या वेदाः । किञ्च, नित्या वेदाश्चेत्तर्हि किमुपलभ्यस्व [ 3A ]भावा अनुपलम्यस्वभावा वा ± । अत्र पक्षद्वयेऽपि दोष' । नित्यत्वेन सर्वदोपलम्भस्यानुपलम्भस्य वा प्रसङ्गात् । अन्यथा, स्वभावहान्या अनित्यत्वापत्ते । ततोऽपौरुषेया नित्यास्तु वेदा न भवन्तीति न ते प्रमाणम् । "वेदा अवेदा यज्ञा अयज्ञा" इति श्रुतिप्रामाण्यात् । गीतायामप्युक्तम् —
ac
यामिमां पुष्पितां वाचं प्रवदन्ति विपश्चितः । वेदवादरता पार्थ' नान्यदस्तीति वादिन' | कामात्मान स ( स्व ) र्गपरा जन्मकर्मफलप्रदाम् । क्रियाविशेषबहुलां भोगैश्वर्यफलं प्रति ॥ भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् । व्यवसायात्मिका बुद्धि समाधौ न विधीयते ॥ त्रैगुण्यविपया वेदा निस्त्रैगुण्यो भवार्जुन । । निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥
[ भगवद्गीता, २ ४२-४५] इति किन, सुधाभुजो देवा अत. कथं गोमेधादिषु हुह्यमाना गवादिपलं भुञ्जते एवमेषामपि पलाद त्वप्रसङ्गात् । न च यागादिक्रिया स्वर्गं साधयन्ति ।
यूपं छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् ।
यद्येवं गम्यते स्वर्गे नरके केन गम्यते ॥ इति भट्टारक श्रीशुकवचनात् । तस्माद्, अहिंसा-सयम-तपोरूप आत्मयज्ञ एव स्वर्गादिसाधनम् । उक्तं चइन्द्रियाणि पशून् कृत्वा वेदीं कृत्वा तपोमयीम् ।
a
अहिंसामाहुतिं दद्यादेष यज्ञः सनातन ||
सांख्यमते अकर्ता निर्गुणो भोक्ता पुरुष । गुणत्रयाणां साम्यावस्था प्रकृति' । सा च प्रधानाव्यक्तसंज्ञाम्या वाच्या । प्रकृतेश्च महदुत्पद्यते बुद्धिरित्यर्थः । महतोऽहंकारः । अहङ्काराद् द्विधा सृष्टिरेकादशक - दशकगणरूपा । तत्रैकादशक । पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि मनश्च । ढाकगणश्च शब्द-रूप- गन्ध-रस-स्पर्शास्तेभ्यो नभस्तेज पृथिव्यम्भोवायव पञ्चभूतानीति पञ्चविंगतितत्त्वानि । तेपां च ज्ञानान्मोक्षः । उक्तं च
१ हे अर्जुन ! २ 'गर्ति इति मुद्रितभगवद्गीतायाम् । ३ शाश्वतो यज्ञ ।