________________
षड्दर्शननिर्णयः। शिखासन्तानोऽपि स्वाधारपात्रं मुक्त्वा न पात्रान्तरे सड्क्रामति । एवं ज्ञानसन्तानोऽपि स्वाधारदेहं मुक्त्वा नान्यं देहं सक्रामति । कर्मवशात् सडक्रामतीति चेन्न, येन ज्ञानक्षणेन पूर्वदेहे कृतं कर्म स स्वकर्म [अ]भुक्त्वा विनष्टः । अन्यत्रोत्पित्सु नक्षणस्तु केन कर्मणा देहान्तरमाप्नोति । पूर्वज्ञानक्षणकृतकर्मणेति चेन्न, अन्यस्य कर्मणा, अन्यस्य - फलोपभोगे सर्वविश्व[2B]वैसंस्थुल्यापत्तेः ।
, केचिन्निखिलवासनोच्छेदे विगतविविधविषयाकारोपप्लवविशुद्धज्ञानोत्पादो मोक्ष इति मन्यन्ते, तदप्ययुक्तम् । समलचित्तक्षणानां स्वाभाविक्याः सदृशारम्भणशक्तेरसदृशामलज्ञानक्षणारम्भं प्रत्यशक्तेश्चाकस्मादनुच्छेदात् । तस्मात् सर्वं न क्षणिकम् । किन्तु, अनाद्यनन्तो ज्ञानादिगुणाधारो द्रव्यतया नित्यो जीवः । उक्तं च
जीर्णानि वासांसि यथा विहाय नवानि गृह्णाति नरोऽपराणि । तथा शरीराणि विहाय जीर्णा
न्यन्यानि संयाति नवानि देही ॥ [भगवद्गीता २.२२] स च जीवः सकलकर्मक्षयेऽवाप्तानन्तज्ञानो मुक्तस्वरूपो विजयते । उक्त .. जीवः शिवः शिवो जीवः शिवाजीवो न भिद्यते ।
कर्मबद्धो भवेज्जीव' कर्ममुक्तः सदाशिव' ॥ [ ] तथा भीमांसकाना सर्वज्ञः कोऽपि नास्तीति, तदुक्ता आगमा अपि न सन्ति । ततोऽपौरुषेयत्वेन नित्या वेदा एव प्रमाणम् । तत्र यागादिक्रियां प्रति प्रवर्तकवचोरूपो नोदनालक्षणो धर्मः । प्रत्यक्षानुमानागमोपमानार्थापत्त्यभावरूपाणि षट् प्रमाणानि । ब्रह्माद्वैतवादिनां चैषामात्मन्यात्मलयो मोक्ष ।
__ इत्थं चैते नोद्याः । नन्वेष सर्वज्ञो भवता ज्ञातो निषिध्यते अज्ञातो वा । ज्ञातश्चेत् तर्हि तज्ज्ञापकप्रमाणसद्भावात कथं निषेधः ? । अज्ञातश्चेन्न, अज्ञातस्य घटादेरपि निषेद्भुमशक्यत्वात् । किञ्च, सर्वज्ञो नास्तीति यदुच्यते तत् किमत्र देशेऽत्र काले सर्वदेशेषु सर्वकालेषु वा १ । आद्य पक्षोऽस्माकमप्यभिमतः, द्वितीयपक्षे तु यः कोऽपि सर्वदेशसर्वकालगत सर्वज्ञो नास्तीत्यादिक स्वरूपं जानाति स एव सर्वज्ञः । ततः कथं सर्वज्ञाभावः । एव सर्वज्ञसिद्धौ तदुक्ता आगमा प्रामाण्येन सिद्धा एव, आप्तवचनत्वात् ।। १ तुलना-जीव शिव शिवो जीव स जीव केवल शिव. ।
पाशबद्ध पशुर्देवि पाशमुक्त सदाशिव ॥ तुषेण वद्धो व्रीहि तुषाभावे तु तण्डुलम् । कर्मबद्ध सदा जीव कर्ममुक्त सदाशिव ।। तन्त्र