________________
श्रीमेरुतुगसरिसंदृब्धः संस्कारत्यागादिभिः, वृपलाणामपि तदर्शनात् । न भिक्षाटन-निरयनतादिभिः, दुर्भिक्षादौ वहुनामपि तत्सम्भवात् । न 'आकिञ्चन्यादिभि , दर्गतानामपि तद्घटनात् । तस्माद् रागद्वेषपरिहाररूपसमतास्वीकार एव यतित्वम् । उक्तं च
वनेऽपि दोषाः प्रभवन्ति गगिणां गृहेऽपि पञ्चेन्द्रियनिग्रहस्तप । अकुत्सितकर्मणि यः प्रवर्तते निवृत्तरागस्य गृहं तपोवनम् ॥ हितोपदेश, सधि, ९०] तथा-~
रागद्वेषौ यदि स्याता तपसा किं प्रयोजनम् ।
तावेव यदि न स्यातां तपसा किं प्रयोजनम् १ ॥ तथा बौद्ध-मीमांसक-साङ्ख्य-नैयायिक-वैशेषिक जैनमेदेन षड्दर्शनानि । तत्र यद्यप्येतान्यात्म-पुण्य-पापापवर्गादिसत्तावादितया सदर्शनानीति व्यवहारस्तथापि स्वस्वपक्षोत्कर्ष-परपक्षापकर्ष -कढाग्रहनिनहाय किम[2A]प्युच्यते ।
इह बौद्धानां वुद्धो देवता. चत्वारि दु खादीन्यार्यसत्यानि । तत्र विज्ञानादयः पञ्चस्कन्धा , द्वादशायतनानि च दु खम् । रागादीनामुदयहेतुरात्मीयभावाख्य समुदयः । सर्व क्षणिकमिति वासना मार्ग । ज्ञानसन्तानोच्छेदो मोक्षः । निरोधो मोक्ष इत्यर्थः । प्रत्यक्षानुमाने द्वे प्रमाणे ।
एवं सति यदि बुद्धो देवताऽस्येति बौद्धत्वव्यपदेशस्तर्हि स बुद्धः संसारी वाऽसंसारी वा ? । यदि ससारी तर्हि अस्मदादिवद् रागादिकलुषिततया न देवः । अथासंसारी तर्हि क्षणिकोऽक्षणिको वा । क्षणिकश्चन्नासंसारी। क्षणिकत्वादेव सन्तानोच्छेदाभावेन मोक्षाभावात् । अक्षणिकश्चेत् किं सन् वाऽसन् वा ? । सचेन्न, यत् सत् तत् क्षणिकमिति प्रतिज्ञाव्याघातात् । असचेन्न प्रमाणम्, खरविषाणस्याप्यसत. प्रमाणत्वप्रसगात् । तत एकान्तक्षणिकत्ववादिनां तेषां कथं बुद्धो देवतेति । किञ्च, सर्वस्य क्षणिकत्वेऽभ्युपगम्यमाने मोक्षोपायप्रवृत्तिरपि न स्यात् । सर्वेषामपि ज्ञानक्षणानां निरन्वयनाशेन मोक्षफलोपभोगाभावात् । अथ ज्ञानसन्तानोच्छेदस्यैव मोक्षत्वाभ्युपगमे मा भूत् कस्यापि मोक्षफलोपभोग इति चेत् तर्हि सर्वजन्तुनामवसानकालस्वाभावेनैव ज्ञानसन्तानोच्छेदसम्भवात् स्वय मोक्षे सति विशिष्टक्रियावैफल्यं भविष्यति । अथ स एव ज्ञानसन्तानोऽन्यत्र देहान्तरं सङ्क्रामतीति नावसानकाले मोक्षप्रसङ्ग इति चेन्न, देहान्तरसक्रमणस्यैवाघटनात् । तथाहि-दीप
१ अपरिग्रह । • महत्त्वारोपण। : अवर्णवाद ।