________________
श्रोमेरुतुङ्गसरिसंदृब्धः ॥ षड्दर्शननिर्णयः ॥
॥ॐ नमः परमात्मने ॥ चिदानन्दैकरूपाय सर्वापायतिरस्कृते ।
ध्यानगम्यस्वरूपाय नमोऽस्तु परमात्मने ॥१॥ तथाहि-इह किल रूढितश्चत्वारो वर्णाश्चत्वारः आश्रमा षड्दर्शनानि इत्यादिविचित्रविश्वव्यवस्थितिः । परं सर्वेषामप्येषामहमेवेति अहंभावः स स्वभावादाविर्भवन् दुर्निवारः, परमार्थदृशा वीक्ष्यमाणः सर्वथाऽनुचितश्च । कथमिति चेदुच्यते-किल ब्राह्मणक्षत्रिय-वैश्य-शूद्रश्चत्वारो वर्णाः । तेषा मध्ये ब्राह्मणो वर्ण. ज्येष्ठ श्रेष्ठश्चेति यद्यपि लोकव्यवहार', परं तद् ब्राह्मण्य सत्य-तपोदयेन्द्रियदमादिरूपब्रह्मात्मकं मुख्यलक्षणम्, परैर्जात्यादिभिर्यज्ञोपवीतादिभिश्च सर्वथा न भवतीति प्राक् बौद्धाचार्येण निर्णीतम् । अत एवोक्तं श्रुतौ
- सत्यं ब्रह्म तपो ब्रह्म ब्रह्म चेन्द्रियनिग्रहः । सर्वभूतदया ब्रह्म एतद् ब्राह्मणलक्षणम् ॥ तथा ब्राह्मणो ब्रह्मचर्येण यथा शिल्पेन शिल्पिकः ।
अन्यथा नाममात्रं स्यादिन्द्रगोपककीटवत् ॥ सत्या[18]दिरूपं च ब्रह्म निर्मलस्वभावतया जायमानं सर्वेष्वपि वर्णेषु घटत एव ।
सर्वजातिषु चाण्डालाः सर्वजातिषु ब्राह्मणा । .. ब्राह्मणेष्वपि चाण्डालाश्चाण्डालेष्वपि ब्राह्मणाः ।। इति श्रुतप्रामाण्यात् ।
तथा ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्चेति चत्वार आश्रमाः । तत्राधमाश्रम- द्वयं गृहस्थानामुचितम , अन्त्यमाश्रमद्वयं च यतीनाम् । ततो यद्यपि व्यवहारतो गृहस्थानां यतयः पूज्या एव, पर तद् यतित्वं भावरहित न वनवास-वल्कलपरिधान-पुष्पफलपत्राहारादिभिः स्यात् । वनेचराणामपि वनवासादि सर्वमस्ति, न च ते यतय । तथा- न भूशयनोञ्छवृत्ति शीतातपसहनादिभिः, मृगादीनामपि तद्भावात् । नाङ्ग
१ भद्वितीयरूप । २ कष्ट । ३ अयोग्य ।