________________
पड्दर्शननिर्णयः।
पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे रतः । जटी मुण्डी शिखी वाऽपि मुच्यते नात्र संशयः ॥ इति । ।
मोक्षश्च प्रकृतिपुरुषयो[3B]विभाग' । प्रत्यक्षानुमानशब्दानि त्रीणि प्रमाणानि । - अत्र चायं विचारः । यद्यचेतना प्रकृतिस्तर्हि ततो बोधरूपा बुद्धि कथमुत्पद्यते । अथ पुरुषाधिष्ठितेति प्रकृतिर्बुद्धिं जनयति तर्हि सा चेतनरूपा बुद्धिः पुरुषधर्मः प्रकृतिधर्मो वा ? पुरुषधर्मश्चेत् कथ प्रकृतित उत्पत्तिः । प्रकृतिधर्मश्चत् कथं जडरूपप्रकृतेर्ज्ञानरूपबुद्धिधर्म', विरोधात् । न हि सूर्याज्जायमानः प्रकाशस्तमसो धर्म इति वक्तुं शक्यम् । किञ्च, यद्यकर्ता पुरुषस्तर्हि धर्ममधर्म करिष्यामीति अध्यवसायं को विधत्ते । प्रकृतिश्चेन्न, तस्या अचेतनत्वात् । पुरुषश्चेन्न, तस्याकर्तृकत्वेन संमतत्वात् । ततोऽनादिः संसारोऽनादिः कर्मबद्धो जीव इति तत्त्वम् । “ न कदाचिदनीदृशं जगत्" इति वचनप्रामाण्यात् । किञ्च, क्रियां विना तत्त्वज्ञानमात्रेण न हि कस्यापि मोक्षः । भुक्तिक्रियां विना तज्ज्ञानेन तृप्तेरयोगात् । उक्तं च
किया फलप्रदा पुंसां न ज्ञान केवलं कचित् ।
न हि स्त्रीभक्ष्यभोगज्ञो ज्ञानादेव सुखी भवेत् ।। नैयायिकमते सृष्टिसहारकारी नित्यः सर्वज्ञाता व्यापक' शिवो देवः । प्रत्यक्षानुमानोपमानागमाश्चत्वारि प्रमाणानि । प्रमाण-प्रमेय-सशय-प्रयोजन-दृष्टान्त-सिद्धान्तावयव-तर्क-निर्णय-बाद-जल्प-वितण्डा-हेत्वाभास-छल-जाति-निग्रहस्थानानीति षोडशतत्त्वानि । एतेषां च परिज्ञानान्मोक्षावाप्तिः । नित्यसंवेद्यमानेन सुखेन विशिष्टात्यन्तिकी दुःखनिवृत्तिः पुरुषस्य मोक्ष इति । एवं चैते पृच्छया । ननु नित्यः सन् शिव सृष्टिसंहारावेकेन स्वभावेन विधत्ते स्वभावभेदेन वा १ । तत्र न तावदेकस्वभावेनैवेति वक्तुं शक्यम् । सृष्टिसंहारस्वभावयोः प्रद्योतान्धकारयोरिवातीवविरुद्धत्वात् । स्वभावान्तरेण चेत् तदा न नित्यः । स्वभावभेदेनाप्रच्युतानुत्पन्नस्थिरैकस्वभावस्य नित्यलक्षणस्य व्याघातात् । अथ नित्य एव भगवान् इच्छावशात् सृजति संहरति [4A]चेति । न, काम-क्रोध-लोभ-दम्भ-गर्व-हर्षरूपोर्मिषट्करहितस्येच्छाया अप्यसम्भवात् । किञ्च, सर्वज्ञोऽसौ स्वद्वेषिण किं सृजति । न हि शुद्धमार्गोच्छेदाय प्रेक्षावान् प्रवर्तते । अथ पूर्वमद्वेषिण सृष्टा' पश्चाद् द्वेषिणो जायन्ते, तर्हि नासौ सर्वज्ञोऽनागततद्वेषभावाज्ञानात् । तथा यदि ईश्वरकर्तृकं जगत् तदा किंकर्तक ।
१ ईश्वर कर्ता अस्य जगत । तत् ईश्वरकर्तृकम् । २ क कर्ता अस्य ईश्वरस्य स किंकर्तृक ईश्वर ।