________________
श्रीमेरुतुङ्गसूरिसंदृब्धः इश्वर इत्यपि चिन्त्यम् । अथानादिनिधनो भगवान् स्वभावसिद्ध इति नान्यकर्तृकस्तर्हि विश्वमपि तथैव स्वभावसिद्धमिति वदता किं वक्त्रं वक्रीस्यात् । किञ्च, नित्यस्य शिवस्य एका मूर्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वरा इत्यपि न घटते । राजसादिपृथग्गुणस्य भागत्रयस्य एकत्वनित्यत्वानुपपत्ते । तथा यद्यसौ सर्वज्ञो व्यापकश्च तदा यत्र जीवस्तत्र शिवः, "सर्वं विष्णुमयं जगट्टा" इति वचनाद्यथा सर्वजन्तूनां व्याप्यत्वं तथा सर्वज्ञत्वमपि किं न स्यात् । अन्यच्च, शिवमयत्वे विष्णुमयत्वे वा जगत आराध्याराधकादि-मुक्तामुक्तादिव्यवस्थाऽपि विशीर्येत । तस्माद् एतानि वाक्यानि
एक एव हि भूतात्मा देहे देहे व्यवस्थित । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥ [ ब्रह्मबिन्दु उपनिषद् १२]
'यादृक् पिण्डे तादृग् ब्रह्माण्डे' इत्यादीनि च शिवादिष्विव सर्वभूतेष्वदुष्टधीप्रतिपादकानि मन्तव्यानि । न चायं शिव पारदवत् खण्डतामवाप्य नानाभूतेषु चेष्टते। 'नैनं छिन्दन्ति शस्त्राणि' इति [भगवद्गीता २.२३] वचनाज्जीवस्य : खण्डत्वायोगात् । नापि निजांगान्नानारूपतया व्यापार्य विचित्रं चेष्टते इति वाच्यम् । यतस्तेऽशास्ततो भिन्ना वाऽभिन्ना वा स्युः । भिन्नाश्चेत् खण्डतादोषः । अभिन्नाश्चेदेकस्मिन् सुखिनि दुःखिनि वा सर्वेऽपि सुखिनो दुःखिनो वा स्यु । तस्मानिरञ्जन सृष्टि-संहारानधिकारी सर्वज्ञः परमपदस्थ शिव इति । उक्तं च
स्वरूपैकप्रतिष्ठान परित्यक्तोऽखिलैर्गुणैः ॥ ऊर्मिषट्काऽतिग' रूपं तदाहुर्मनीषिणः ।
ससारवन्धनाधीनक्लेगदुःखाद्यदूषितम् ।। इत्यादि न्यायमञ्जरीनवमाह्निके अन्यत्राप्युक्तम्
न स्वधुनी न फणिनो न कपालदाम नेन्दो कला न गिरिजा न जटा न भस्म । यत्रास्ति किञ्चिदपि नान्यदुपास्महे तद्
रूप पुराणमुनिशीलितमीश्वरस्य ||
वैशेषिकाणामपि देव शिव एव । द्रव्य-गुण-कर्म-सामान्य-विशेष-समवाया पद पदार्था. । प्रत्वक्षानुमाने द्वे प्रमाणे । नवाना [4 B] बुद्धि-सुख-दुःखेच्छाद्वेष-प्रयत्न-धर्माधर्म-सस्काररूपविशेषगुणानामत्यन्तोच्छेदे मोक्ष इति । ते चैवं
१ अतिक्रान्त । २ जीर्ण । ३ सेवित ।