________________
षड्दर्शननिर्णयः । पर्यनुयोज्या ' । ननु आगमाः प्रमाणमप्रमाणं वा। यद्यप्रमाणं कथं तर्हि आगमवलेन षट्पदार्थादिप्ररूपणा प्रमाणीक्रियते । अथ प्रमाणं तदा कथं द्वे एव प्रमाणे ?'। तस्मादागमार्थापत्त्यादीन्यपि प्रमाणानि मन्तव्यानि । अन्यथा, सर्वव्यवहारलोपात् । किञ्च, विशेषगुणोच्छेदे मोक्षस्तदा मुक्तजीवस्य सर्वज्ञानसुखयोरभावादाकाशाद्यजीवैः सह मनागपि नो भेदः । अतस्तत्त्वज्ञानादिना मोक्षमवाप्य भवन्मते जीवैरजीवैर्भाव्यं [इति] लाभमिच्छतो मूलक्षतिः । अन्यच्च । यथाऽभ्रच्छि(च्छ)न्नादित्यस्य शनैः शनैरभ्रापगमे प्रकाश' स्पष्टस्पष्टतरो भवन् सर्वाभ्रापगमे सर्वथा स्पष्ट एव स्यादेवं कर्माच्छादितस्य जीवस्य शनैः शनैः कर्मक्षये स्फुटस्फुटतरीभवज्ञानं मोक्षक्षणे सर्वकर्मक्षये सम्पूर्ण केवलज्ञानमेव जायते, न पुनः सर्वथा ज्ञानोच्छेद इति । किञ्च, परमात्मस्वरूपं पश्यतो योगिनो यथा यथा विषयोपरमैस्तथा तथा परमानन्दसुख बहुबहुतरमेव दृश्यते ततो यदा मोक्षक्षणे सर्वविषयोपरमस्तदा सर्वोत्तमं परमानन्दसुखं जायमानं केन निवार्यते । उक्तं च न्यायसारसूत्रे
सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् ।
तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभि · ॥१।। श्रीजैनदर्शने रागद्वेषविनिर्मुक्तः सर्वज्ञो महोदयी भगवान् जिनो देवः । जीवाजीवादीनि नवतत्त्वानि । प्रत्यक्षपरोक्षलक्षणं प्रमाणद्वयम् । अनन्तधर्मात्मकं स्याद्वादक्रोडीकृतं सर्व वस्तु प्रमाणविषयः । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । अत्र चैवं विचारः । ननु सम्यग्दर्शनज्ञानचारित्राणि व्यस्तानि वा समस्तानि वा व्यस्तसमस्तानि वा मोक्षमार्ग इति त्रयी गतिः । तत्र न व्यस्तानि यतो यथावस्थितजीवादिनवतत्त्वानां विस्तराद्वा संक्षेपाहाऽवबोधो ज्ञा[5 A]नम्, श्रद्धानं च दर्शनं बहूनामपि भूतं भवति भविष्यति च । न च ते चारित्रं विना मोक्षं याता यान्ति यास्यन्ति च । चारित्रमपि सर्वसावद्यत्यागलक्षणमागमोक्तत्वादभव्यानामपि भवति । न च ते सिद्धा. सिद्धयन्ति सेत्स्यन्ति च । तस्मान्न व्यस्तानि तानि मोक्षमार्गः । नापि समस्तानि, श्रीभरतचक्रवादीनां राज्यं कुर्वतामेव मोक्षप्राप्तेः । नापि व्यस्तसमस्तानि धर्मतीर्थस्याप्रवृत्ततया स्वतः परतो वा ज्ञानादीनामसम्भवेऽपि भगवन्मातृमरुदेवादीनां मोक्षस्य लाभात् । तस्मात् सर्वशुद्धशुभपरिणामपरिणत आत्मैव सम्यगज्ञानादिरत्नत्रयरूपो ज्ञातव्यः । स एव मोक्षश्चेति । उक्तं च
आत्मैव दर्शनज्ञानचारित्राण्यथवा यतेः ।
यत् तदात्मक एवैष शरीरमधितिष्ठति ॥ १ पृच्छया । २ निवृत्ति। ३ मूर्ख ।