Book Title: Collection Of Jaina Philosophical Tracts Author(s): Nagin J Shah Publisher: L D Indology AhmedabadPage 46
________________ १८ अज्ञातकर्तृकम् एतत्तु प्रक्रियामात्रम् । तद्यथा--नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । नित्यद्रव्याणिचतुर्विधा परमाणवः, मुक्तात्मानः, मुक्तमनासि चेति नियुक्तिकत्वादपकर्णयितव्यमिति । समवायस्त्वयुतसिद्धानामाधाराधेयभूतानां य इह-प्रत्ययहेतु. स समवाय इत्युध्यते। असावपि नित्य एकश्चाऽऽश्रीयते । तस्य च नित्यत्वात् समवायिनोऽपि नित्या आपोरन् । तदनित्यत्वे च तम्याप्यनित्यतापत्तिस्तदाधाररूपत्वात् तस्य । तदेकत्वाच्च सर्वेषा समवायिनामेकत्वापत्तिस्तस्य वानेकत्वमिति । किञ्चायं समवायः सम्बन्धस्तस्य [च] द्विष्ठत्वाद् [समवायिनो'] युतसिद्धत्वमेव दण्डदण्डिनोरिव । वीरणानां कटोत्पत्तौ तद्रूपतया विनाश., कटरूपतयोत्पत्ति., अन्वयरूपतया व्यवस्थानमिति दुग्धदध्नोरिवेति । एव(व) वैशेषिकमतेऽपि न सम्यक्पदार्थव्यवस्थितिः । साम्प्रतं साडख्यदर्शने तत्त्वनिरूपण प्रक्रम्यते । तत्र प्रकृत्यात्मसयोगात् सृष्टिरुपजायते । प्रकृतिश्च सत्त्वरजस्तमसां साम्यावस्था । ततो महान् , महतोऽहकारः अहङ्काराद् एकादशन्द्रियाणि पञ्चतन्मात्राणि [च], पञ्चतन्मात्रेभ्यः पञ्चभूतानीति । चैतन्यं पुरुषस्य स्वरूपम् । स चाकर्ता निर्गुणो भोक्तेति । तत्र परस्परविरुद्धानां सत्त्वादीनां गुणानां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते कृष्णसितादिगुणानामिव । न च महदादिविकारे जन्ये प्रकृतिवैषम्योत्पादने कश्चिद्धेतुस्तद्व्यतिरिक्तवस्त्वन्तरानभ्युपगमाद् आत्मनश्चाकर्तृकत्वेनाऽकिञ्चित्करत्वात् । स्वभाववैषम्याभ्युपगमे तु निर्हेतुकत्वापत्ते नित्यं सत्त्वमसत्त्वं वा स्यादिति । उक्तं च-- नित्यं सत्त्वमसत्वं वा हेतोरन्याऽनपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभव ॥ [प्रमाणवा० ३. ३४ ] अपि च, महदहकारौ सवेदनादभिन्नौ पश्याम. । तथाहि-बुद्धिरध्यवसाय, अहङ्कार चाह सुखी अहं दु खीत्येवमात्मकः प्रत्ययः, तयोश्च चिद्रूपतया आत्मगुणत्वम् न जडरूपायाः प्रकृतेर्विकारावेताविति । __ अपि च, येयं तन्मात्रेभ्यो भूमोतो(भूतो)त्पत्तिरिष्यते तद्यथा गन्धतन्मात्रात् पृथिवी, रसतन्मात्रादापः, रूपतन्मात्रात्तेजः, स्पर्शतन्मात्राद्वायुः, शब्दतन्मात्रादाकाशमिति-साऽपि न युक्तिक्षमा; यतो यदि बाह्यभूताश्रयेणैतदभिधीयते तदयुक्तम्, तेषा सर्वदा भावात् न कदाचिदनीदृश जगदिति कृत्वा । अथ प्रतिशरीराश्रयणादेतदुच्यते-तत्र किल त्वगस्थिकठिनलक्षणा पृथ्वी, श्लेष्माऽसृगद्रवलक्षणा आपः, पक्तिलक्षणं तेज:. प्राणापानलक्षणो बायु , शुपिरलक्षणमाकागमिति–तदपि न युज्यते ।Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193