________________
१८
अज्ञातकर्तृकम् एतत्तु प्रक्रियामात्रम् । तद्यथा--नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । नित्यद्रव्याणिचतुर्विधा परमाणवः, मुक्तात्मानः, मुक्तमनासि चेति नियुक्तिकत्वादपकर्णयितव्यमिति ।
समवायस्त्वयुतसिद्धानामाधाराधेयभूतानां य इह-प्रत्ययहेतु. स समवाय इत्युध्यते। असावपि नित्य एकश्चाऽऽश्रीयते । तस्य च नित्यत्वात् समवायिनोऽपि नित्या आपोरन् । तदनित्यत्वे च तम्याप्यनित्यतापत्तिस्तदाधाररूपत्वात् तस्य । तदेकत्वाच्च सर्वेषा समवायिनामेकत्वापत्तिस्तस्य वानेकत्वमिति । किञ्चायं समवायः सम्बन्धस्तस्य [च] द्विष्ठत्वाद् [समवायिनो'] युतसिद्धत्वमेव दण्डदण्डिनोरिव । वीरणानां कटोत्पत्तौ तद्रूपतया विनाश., कटरूपतयोत्पत्ति., अन्वयरूपतया व्यवस्थानमिति दुग्धदध्नोरिवेति ।
एव(व) वैशेषिकमतेऽपि न सम्यक्पदार्थव्यवस्थितिः ।
साम्प्रतं साडख्यदर्शने तत्त्वनिरूपण प्रक्रम्यते । तत्र प्रकृत्यात्मसयोगात् सृष्टिरुपजायते । प्रकृतिश्च सत्त्वरजस्तमसां साम्यावस्था । ततो महान् , महतोऽहकारः अहङ्काराद् एकादशन्द्रियाणि पञ्चतन्मात्राणि [च], पञ्चतन्मात्रेभ्यः पञ्चभूतानीति । चैतन्यं पुरुषस्य स्वरूपम् । स चाकर्ता निर्गुणो भोक्तेति ।
तत्र परस्परविरुद्धानां सत्त्वादीनां गुणानां नियामकं गुणिनमन्तरेणैकत्रावस्थानं न युज्यते कृष्णसितादिगुणानामिव । न च महदादिविकारे जन्ये प्रकृतिवैषम्योत्पादने कश्चिद्धेतुस्तद्व्यतिरिक्तवस्त्वन्तरानभ्युपगमाद् आत्मनश्चाकर्तृकत्वेनाऽकिञ्चित्करत्वात् । स्वभाववैषम्याभ्युपगमे तु निर्हेतुकत्वापत्ते नित्यं सत्त्वमसत्त्वं वा स्यादिति । उक्तं च--
नित्यं सत्त्वमसत्वं वा हेतोरन्याऽनपेक्षणात् । अपेक्षातो हि भावानां कादाचित्कत्वसंभव ॥ [प्रमाणवा० ३. ३४ ]
अपि च, महदहकारौ सवेदनादभिन्नौ पश्याम. । तथाहि-बुद्धिरध्यवसाय, अहङ्कार चाह सुखी अहं दु खीत्येवमात्मकः प्रत्ययः, तयोश्च चिद्रूपतया आत्मगुणत्वम् न जडरूपायाः प्रकृतेर्विकारावेताविति ।
__ अपि च, येयं तन्मात्रेभ्यो भूमोतो(भूतो)त्पत्तिरिष्यते तद्यथा गन्धतन्मात्रात् पृथिवी, रसतन्मात्रादापः, रूपतन्मात्रात्तेजः, स्पर्शतन्मात्राद्वायुः, शब्दतन्मात्रादाकाशमिति-साऽपि न युक्तिक्षमा; यतो यदि बाह्यभूताश्रयेणैतदभिधीयते तदयुक्तम्, तेषा सर्वदा भावात् न कदाचिदनीदृश जगदिति कृत्वा । अथ प्रतिशरीराश्रयणादेतदुच्यते-तत्र किल त्वगस्थिकठिनलक्षणा पृथ्वी, श्लेष्माऽसृगद्रवलक्षणा आपः, पक्तिलक्षणं तेज:. प्राणापानलक्षणो बायु , शुपिरलक्षणमाकागमिति–तदपि न युज्यते ।