________________
पञ्चदर्शनखण्डनम् दराद्याकारे उदकाद्याहरणक्षमे कुटकाख्ये शब्दस्य घटादेरभिनिवेशस्तत्र त्वतलौ । इह च रक्ताख्यः को गुणो यत्सद्भावात् कतरच तद् द्रव्यं यत्र शब्दनिवेशो येन च भावप्रत्ययः स्यादिति । परः-किमिदानी रक्तस्य भावो रक्तत्वमिति न भवितव्यम् १ । आचार्य-भवितव्यम् उपचारेण । तथाहि-रक्त इत्येतत् द्रव्यत्वेनोपचर्यः । तस्य सामान्यभाव इति रक्तत्वमिति । न च उपचारस्तत्त्वचिन्तायाम् उपयुज्यते । शब्दसिद्धावेव तस्य कृतार्थत्वाद् इति । शब्दश्च आकाशगुण एव न भवति । तस्य पौगलिकत्वात्, आकाशस्य च अमूर्तत्वाद् इति । शेषं तु प्रक्रियामात्रम् न साधनदूषणयोरङ्गम् ।
क्रियाऽपि द्रव्यसमदा(वा)यिनी गुणवत् पृथगाश्रयितुं न युक्तेति ।
अथ सामान्यम् । तद् द्विधा परम् अपरं च । तत्र परं सामान्यं सत्ताख्यं द्रव्यादिपदार्थव्यापि । तथा चोक्तम्-सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । अपरं च द्रव्यगुणकर्मत्वात्मकम् ।
तत्र न तावत् महासत्तायाः पृथक्पदार्थता युज्यते । यतस्तस्यां यत्सदिति प्रत्ययः स किम् अपरसत्तानिबन्धन उत स्वत एव । तद्यदि अपरसत्तानिबन्धनस्तत्राप्ययमे [व] विकल्पोऽतोऽनवस्था । अथ स्वत एव ततः तद्वद् द्रव्यादिष्वपि स्वत एव सत्-प्रत्ययो भविष्यतीति किमपरसत्तया अजागलस्तनकल्पया विकल्पितया । किञ्च, द्रव्यादीनां सतां सत्तया सत्प्रत्ययो उत असताम् । तद्यदि सतां तत एव सत्प्रत्ययो भविष्यतीति किं तया । अथासतां तर्हि शशविषाणादिष्वपि सत्तायोगात् सत्प्रत्ययः स्यादिति । तथा चोक्तम्
स्वतोऽर्थाः सन्तु सत्तावत् सत्तया किं सदात्मनाम् । असदाय(दात्मनस्तु नैषा स्यात् सर्वथाऽतिप्रसङ्गतः ॥ इत्यादि। [लघीयस्त्रय ४०]
एतदेव दूषणम् अपरसामान्येऽपि योज्यं तुल्ययोगक्षेमत्वात् । किञ्चास्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित् तदिष्यत एवेति । तस्य कथञ्चिदव्यतिरेकाद द्रव्यग्रहणेनैव ग्रहणम् इति ।
अथ विशेषाः । ते चात्यन्तव्यावृत्तिशु(बु)द्धिहेतुत्वेन परैराश्रीयन्ते । तत्रेदं चिन्त्यते। या तेषु विशेषबुद्धिः सा नापर विशेषहेतुकाऽऽश्रयितव्याऽनवस्थाभयात् । स्वतः समाश्रयणे च तद्वत् द्रव्यादिष्वपि विशेषबुद्धि' स्यात्, कि द्रव्यादिव्यतिरिक्तैर्विशेषैरिति । द्रव्याऽव्यतिरिक्तास्तु विशेषा अस्माभिरपि आश्रीयन्ते सर्वस्य सामान्यविशेषाामकत्वादिति ।