________________
पञ्चदर्शनखण्डनम् यतोऽत्रापि केषाञ्चिच्छरीराणां शुक्राऽसृक्प्रभवोत्पत्तिर्न तत्र तन्मात्राणां गन्धोऽपि समुपलक्ष्यते । अदृष्टस्यापि कारणत्वकल्पनेऽतिप्रसङ्गः स्यात् । अण्डजोद्भिजाङ्करादीनामप्यन्यतषो(तश्चो)त्पर्तिभवन्ती समुपलक्ष्यते ।
तदेवं व्यवस्थिते प्रधानमहदहङ्कारादिकोत्पत्तिर्या सांख्यैः स्वप्रक्रिययाऽभ्युपगम्यते सा नियुक्तिकमेव स्वदर्शनानुरागेणाभ्युपगम्यत इति ।
आत्मनश्चाकर्तृकत्वाभ्युपगमे कृतनाशोऽकृताभ्यागमश्च स्यात् , बन्धमोक्षा भावश्च । निर्गुणत्वे च ज्ञाम(न)शून्यतापत्तिरित्यतो बालप्रलापमात्रम् । प्रकृतेश्चाऽचेतनाया आत्मार्थ प्रवृत्तियुक्तिविकलेति ।
अथ बौद्धमतं निरूप्यते । तत्र पदार्था द्वादशायतनानि । तद्यथा---चक्षुरादीनि पञ्च, रूपादयश्च विषयाः पञ्च, मनआयतनम् , धर्मायतनं च । धर्माः सुखादयः ।
द्वादशायतनपरिच्छेदके प्रत्यक्षानुमाने द्वे एव प्रमाणे ।
तत्र चक्षुरादीन्द्रियाण्यजीवग्रहणेनैवोपात्तानि भावेन्द्रियाणि तु जीवग्रहणेनेति । रूपादयश्च विषया अजीवोपादानोपात्ता न पृथगुपादातव्या' । शब्दायतनं तु पौद्गलिकत्वाच्छब्दस्याजीवग्रहणेन गृहीतम् । न च वस्तुप्रतिव्यक्तिपदार्थता युक्ता सङ्गता वा। धर्मात्मकं सुखं दुःख च यद्यसातसातोदयरूप ततो जीवगुणत्वाज्जीवेऽन्तर्भावः । अथ तत्कारणं कर्म ततः पौद्गलिकत्वादजीव इति ।
__ प्रत्यक्षं च तैर्निर्विकल्पकमिष्यते । तच्चानिश्चयात्मकतया प्रवृत्तिनिवृत्त्योरनगमित्यप्रमाणमेव । तदप्रामाण्ये तत्पूर्वकत्वादनुमानमपीति ॥
इति पञ्चदर्शनखण्डनम् ॥ ग्रन्थाग्रं २००॥ संवत १५०३ वर्षे श्रावणसुदि पञ्चम्या भोमवारे लिखितम् । समाप्तम् अजार्याम् । शुभं भवतु ॥ श्री ॥