Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 49
________________ विविधमतस्थापकोत्थापकानुमानसङ्ग्रहः टपाकादिविशुद्धिकारणकलापोपेतो जात्यो रत्नविशेषः । तथा च तथा विधो विवक्षितः कश्चिज्जीवः प्रकर्षप्राप्ततपश्चारित्रज्ञानाश्रय-ध्यान-योगनिरोधादि विशुद्धिकारणकलापोपेतस्तस्मात् सम्भवदत्यन्तविशुद्धिकः ॥१०॥ तथाविधस्य कस्यचिद् भव्यजीवस्याष्टादशपापस्थानोपार्जितज्ञानाद्यावृतिरूपं कर्म प्रतिनियतविशिष्टवियोजकभावसामग्रयामत्यन्तं वियुज्यते । आवृतिरूपत्वात् । यद् यद् आवृतिरूपं तत् तदत्यन्तं वियुज्यते । यथा प्रतिनियतविशिष्टवियोजकभावसामग्रीसद्भावे काञ्चनोपलकाञ्चनस्य मलपटलम् । तथा चेदमष्टादशपापस्थानोपार्जितं ज्ञानाद्यावृतिरूपं कर्म । तस्मादत्यन्तं वियुज्यते । एवंविधः सकलकर्मवियुक्तो जीवो ज्ञानस्वरूपः सकलार्थग्रहणप्रवण' सर्वज्ञ इति ॥११॥ अभ्यस्यमानायाः प्रज्ञाया व्याकरणादिना शास्त्रसस्कारेणोत्तरोत्तरवृद्धया प्रज्ञातिगयो दृष्टस्तत्र कस्यचिदत्यन्तातिशयप्राप्ते सर्वज्ञत्वं स्यादिति सम्भवानुमानम् ॥१२॥ ॥ इति सर्वज्ञसाधकान्यनुमानानि । २. ईश्वरजगत्कर्तृत्ववादः अथेश्वरजगत्कर्तृत्वसाधकानि । असाधारणकारणपूर्वकं जगद्वैचित्र्यं विचित्रत्वाच्चित्रादिवैचित्र्यवत् । १ उर्वीपर्वत-तर्वादिक सर्वं बुद्धिमत्कारणाधिष्ठितम् । स्थित्वा स्थित्वाऽभिमतफलसम्पादनाय प्रवर्तमानत्वात् । यथा वास्यादि द्वैधीकरणादौ ॥२॥ विमतं सकर्तृकम् । सन्निवेशविशिष्टत्वात् घटवत् । अभूतभावित्वात् अचेतनोपादानत्वाद्वा घटवदेव ॥५॥ अयं । घट एतज्जनकानित्यज्ञानेतरज्ञानजन्य । कार्यत्वात् पटवत् ॥६॥ विमतं सर्वप्रमातृपर कर्तपूर्वकम् । कार्यत्वात् । सर्वप्रमातृपरकतृपूर्वकं यन्न भवति तन्न कार्यम् । यथाऽऽत्मा । न च तथेदं कार्य न भवति । तस्मात् सर्वप्रमातृवत् परकर्तृपूर्वकं (सर्वप्र(मातृपरकर्तृपूर्वकं ) भवति ॥७॥ इच्छादय एतद्ग्राहकानित्यज्ञानातिरिक्तप्रत्यक्षवेद्याः । अपरोक्षत्वात् । रूपादिवत् ॥८॥ इति वक्त्रछा(कत्रिच्छा)या अनुमानम् । भूधरादिक कार्यम् । सावयवत्वात् घटवत् ॥९॥ भू-भूधराधमु(रादि उत्पादवत् । अवयवित्वात् । घटवत् ॥१०॥ ॥ इति ईश्वर-जगत्कर्तृत्वसाधकानि ॥ अथ तन्निषेधे । ईश्वरो जगत्कर्ता न भवति । निरुपकरणत्वात् । दण्ड-चक्रचीवराद्युपकरणरहितकुलालवत् ॥१॥ तथात्रैव पक्षे व्यापित्वाद् व्योमवत् ॥२॥ एक

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193