________________
विविधमतस्थापकोत्थापकानुमानसङ्ग्रहः टपाकादिविशुद्धिकारणकलापोपेतो जात्यो रत्नविशेषः । तथा च तथा विधो विवक्षितः कश्चिज्जीवः प्रकर्षप्राप्ततपश्चारित्रज्ञानाश्रय-ध्यान-योगनिरोधादि विशुद्धिकारणकलापोपेतस्तस्मात् सम्भवदत्यन्तविशुद्धिकः ॥१०॥ तथाविधस्य कस्यचिद् भव्यजीवस्याष्टादशपापस्थानोपार्जितज्ञानाद्यावृतिरूपं कर्म प्रतिनियतविशिष्टवियोजकभावसामग्रयामत्यन्तं वियुज्यते । आवृतिरूपत्वात् । यद् यद् आवृतिरूपं तत् तदत्यन्तं वियुज्यते । यथा प्रतिनियतविशिष्टवियोजकभावसामग्रीसद्भावे काञ्चनोपलकाञ्चनस्य मलपटलम् । तथा
चेदमष्टादशपापस्थानोपार्जितं ज्ञानाद्यावृतिरूपं कर्म । तस्मादत्यन्तं वियुज्यते । एवंविधः सकलकर्मवियुक्तो जीवो ज्ञानस्वरूपः सकलार्थग्रहणप्रवण' सर्वज्ञ इति ॥११॥ अभ्यस्यमानायाः प्रज्ञाया व्याकरणादिना शास्त्रसस्कारेणोत्तरोत्तरवृद्धया प्रज्ञातिगयो दृष्टस्तत्र कस्यचिदत्यन्तातिशयप्राप्ते सर्वज्ञत्वं स्यादिति सम्भवानुमानम् ॥१२॥
॥ इति सर्वज्ञसाधकान्यनुमानानि ।
२. ईश्वरजगत्कर्तृत्ववादः अथेश्वरजगत्कर्तृत्वसाधकानि ।
असाधारणकारणपूर्वकं जगद्वैचित्र्यं विचित्रत्वाच्चित्रादिवैचित्र्यवत् । १ उर्वीपर्वत-तर्वादिक सर्वं बुद्धिमत्कारणाधिष्ठितम् । स्थित्वा स्थित्वाऽभिमतफलसम्पादनाय प्रवर्तमानत्वात् । यथा वास्यादि द्वैधीकरणादौ ॥२॥ विमतं सकर्तृकम् । सन्निवेशविशिष्टत्वात् घटवत् । अभूतभावित्वात् अचेतनोपादानत्वाद्वा घटवदेव ॥५॥ अयं । घट एतज्जनकानित्यज्ञानेतरज्ञानजन्य । कार्यत्वात् पटवत् ॥६॥ विमतं सर्वप्रमातृपर
कर्तपूर्वकम् । कार्यत्वात् । सर्वप्रमातृपरकतृपूर्वकं यन्न भवति तन्न कार्यम् । यथाऽऽत्मा । न च तथेदं कार्य न भवति । तस्मात् सर्वप्रमातृवत् परकर्तृपूर्वकं (सर्वप्र(मातृपरकर्तृपूर्वकं ) भवति ॥७॥ इच्छादय एतद्ग्राहकानित्यज्ञानातिरिक्तप्रत्यक्षवेद्याः । अपरोक्षत्वात् । रूपादिवत् ॥८॥ इति वक्त्रछा(कत्रिच्छा)या अनुमानम् । भूधरादिक कार्यम् । सावयवत्वात् घटवत् ॥९॥ भू-भूधराधमु(रादि उत्पादवत् । अवयवित्वात् । घटवत् ॥१०॥
॥ इति ईश्वर-जगत्कर्तृत्वसाधकानि ॥ अथ तन्निषेधे । ईश्वरो जगत्कर्ता न भवति । निरुपकरणत्वात् । दण्ड-चक्रचीवराद्युपकरणरहितकुलालवत् ॥१॥ तथात्रैव पक्षे व्यापित्वाद् व्योमवत् ॥२॥ एक