________________
२२
अज्ञातकर्तृकः
त्वात् तद्वत् ||३|| अगरीरत्वात् । सिद्धात्मवत् ||४|| ईश्वरत्रिजगन्निमित्तं न भवति । विशेषगुणाधिकरणत्वात् । व्यतिरेके दिक्कालौ || ५ || ईश्वरो भवादिनिमित्तं न भवति, अमूर्तद्रव्यत्वे सति अनिमित्तत्वादन्तरिक्षवत् । व्यतिरेके दिक्कालौ ||७|| क्षित्यादिकं बुद्धिमद्विधेयं न स्यादस्मदाद्यनवग्राह्य परिणामाधारत्वात् । व्योमवत् ||८|| विवादाध्यासितमकर्तृकं गरीराजन्यत्वात् । शरीरनिर्मितेतरत्वाद्वा । शरीरिणाऽजनितत्वात् । महा भृतत्वात् । गगनवत् ॥१२
॥ इतीश्वरजगत्कर्तृत्वनिपेधकानि ॥
*
*
३. प्रपञ्चमिथ्यात्ववादः
विधिरेव तत्त्वम् । प्रमेयत्वात् । यत्तु न विधिरूपं तन्न प्रमेयम् । यथा खपुष्पम् ॥ १॥ सर्वे भावा ब्रह्मविवर्ता । सत्तैकरूपेणान्वितत्वात् । यद् यद्रूपेणान्वित तत् तदात्मकमेव । यथा मृद्रूपेणान्विता मृदात्मका एव घटादयः । सत्तैकरूपेणान्विताश्चामी तस्माद् ब्रह्म विवर्ता एव || २ || ग्रामारामादय पदार्थाः प्रतिभासान्तःप्रविष्टाः । प्रतिभासमानत्वात् । प्रतिभासस्वरूपवत् || ३ || प्रपञ्चो मिथ्या । अनात्मत्वात् '। जडत्वात् । दृश्यत्वात् । उत्पत्तिमत्त्वात् । विनाशित्वात् । यत्तु नैवं न तदेवं यथा प्ररब्रह्म ||८|| तत्र जडत्व नामाऽनात्मप्रकाशकत्वम् | असंविद्रूपत्वम् । पर्युदासात्मकं वा । दृश्यत्वं तु स्वयवहारे स्वातिरेकिस्वदर्शनापेक्षानिय तिविधिमात्रमिति । इति जडत्व-दृश्यत्वयोर्भेद । अपेक्षानिर्यातिर्दृश्यत्वमित्युक्ते स्वप्रकाशस्यापि व्यञ्जकापेक्षानियमॊऽस्त्येव व्यवहारे । तदर्थमुक्तं स्वदर्शनपदम् । तथापि स्वरूपभूतस्फुरणाsपेक्षाऽस्त्येवेति स्वातिरेकिपदम् । तथाप्यात्मन सोपाधिव्यवहारे स्वातिरेकिस्वदर्शनापेक्षाऽस्तीति तदर्थमुक्तं स्वव्यवहार इति । विधिमात्रमिति केवल विधिरूपम् । न निषेधात्मरूपम् । इति दृश्यत्वार्थ प्रमाणमालायाम् | अद्वैतवादी प्राह- अस्माकं भेदप्रतीतिव्यवस्थापर्यनुयोगवाणधारणाय बज्रवारणायमानाऽनिर्वचनीयता विजयते । ननु क्रिमिदमनिर्वचनीयत्वम् । न तावन्निर्वचनानर्हत्वम् । मूकीभावप्रसङ्गात् । नापि सद्वै - ४. शरीरप्रेरकेणात्मनानेकान्त ।
1
५. अथवाऽमूर्तद्रव्यत्वे मति परापरगुणानधिकरणत्वात् आकाशवत् । ( कालेन व्यभिचारोऽस्मिन् - हेतौ 1)
६ अनात्मत्वात् = अप्रकाशकत्वात् । अस्यानुमानस्य विपर्ययोऽयम् । यथा - परब्रह्म मिथ्या पराप्रकाकत्वात् । यत् सत्य तन् परप्रकाशक दृष्टम् यथा भानु- प्रदीपेन्द्रियज्ञान- चन्द्रादय । ७. त्राह्मन्त्रादिवदन्यव्यावृत्यात्मकं जडत्वम् ।
肚