Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 55
________________ विविधमतस्थापकोत्थापकानुमानसङ्ग्रहः न्यत्वे सति सत्तासम्बन्धित्वात् । यथा रूपादि ॥२॥ न च द्रव्यकर्मान्यत्वमसिद्धम् । शब्दो न द्रव्यमेकद्रव्यत्वात् । रूपादिवत् ॥३॥ न चैकद्रव्यत्वमसिद्धम् । एकद्रव्यं शब्दः। सामान्यविशेषवत्त्वे सति बोकेन्द्रि(बैकेन्द्रि)यप्रत्यक्षत्वात् । रूपादिवत् ॥४॥ तथा कर्मापि न स्यादसौ । सयोगविभागाकारणत्वाद् रूपादिवत् ॥५।। इतश्च न द्रव्यं न कर्म शब्दोऽनित्यत्वे सति नियमेनाचाक्षुषप्रत्यक्षत्वात् । रसादिवत् । आत्मना व्यभिचारनिवृत्त्यर्थमनित्यत्वे सतीति विशेषणम् । तथाप्यचाक्षुषप्रत्यक्षप्रतीयमानद्रव्य-कर्मभ्यां व्यभिचारस्तन्निवृत्त्यर्थं नियमेनेति । तयोः शब्दादिवदचाक्षुषप्रत्यक्षत्वनियमासभवात् ॥६॥ तथा गव्दो द्रव्य कर्म च न स्यादसौ व्यापकद्रव्यसमवेतत्वात् सुखादिवत् ॥७॥ अतः सिद्ध द्रव्यकर्मान्यत्वे सति विशेषणम् । द्रव्यकर्मान्यत्वादित्युक्ते सामान्यादिना व्यभिचारस्तन्निवृत्त्ययं सत्तासम्बन्धित्वादित्युक्तम् । अतः सिद्ध गुणत्वेन शब्दस्य क्वचिदाश्रितत्वम् । यश्चास्याश्रयस्तत् पारिशेष्यादाकाशम् । तथाहि-न तावत् स्पर्शवतां परमाणूनां विशेषगुणोऽसावस्मदादिप्रत्यक्षत्वात् । कार्यद्रव्यरूपादिवत् ॥८॥ नापि कार्यद्रव्याणा पृथिव्यादीनां विशेषगुणोऽसौ कार्यद्रव्यान्तराप्रादुर्भावेऽप्युपजायमानत्वात् । सुखादिवत् ॥९॥ अकारणगुणपूर्वकत्वात् । इच्छादिवत् ॥१०॥ अयावद्र्व्यभावित्वात् ।।११।। अस्मदादिपुरुषान्तरप्रत्यक्षत्वे सति पुरुषान्तराप्रत्यक्षत्वात् । तद्वत् ॥१२।। स्पर्शवता हि पृथिव्यादीनां यथोक्तविपरीतगुणाः प्रतीयन्त इति । नाप्यात्मविशेषगुणोऽहङ्कारेण विभक्तग्रहणात् । आत्मान्तरग्राह्यत्वाच्च बुद्धयादीनां चात्मगुणानां तद्वैपरीत्येनोपलब्धे । नापि मनोगुणोऽस्मदादिप्रत्यक्षत्वाद् रूपादिवत् ॥ नापि दिक्कालयोर्विशेषगुण । तयोः] पूर्वापरादिप्रत्ययहेतुत्वात् । इति पारिशेष्यात् सिद्धं गगनगुणत्व शब्दस्य । ॥ इति शब्दस्यापौद्गलिकत्वसाधकानि ।। पौद्गलिकः शब्द इन्द्रियार्थत्वाद् रूपादिवत् ॥१॥ शब्दो द्रव्य गुण-क्रियावत्त्वाद् बाणादिवत् ॥२॥ न चास्य गुण-क्रियावत्त्वमसिद्धं गब्दस्य गुणक्रियावत्त्वसाधकप्रमाणसद्भावात् । तथाहि-गुणवान् शब्द. स्पर्शाल्पत्वमहत्त्व-परिमाण-सख्यासयोगाश्रयत्वाद् बदरामलकादिवत् ॥३॥ न तावत् स्पर्शाश्रयत्वमसिद्धम् । तथाहिस्पर्शवान् शब्दः स्वसम्बद्धार्थान्तराभिघातहेतुत्वात् । मुद्गरादिवत् ॥४॥ न चेदमसिद्धं कंसपात्र्यादिवानाभिसम्बन्धे श्रोत्राभिघातप्रतीतेः । तथा स्पर्शवान् शब्दः स्पर्शवताऽर्थेनाभिहन्यमानत्वात् तृणादिवत् ।।५॥ न चेदमप्यसिद्धम् । प्रतिवातभित्त्यादिभिः स्पर्शवद्धिस्तदभिघातप्रतीते. । नाप्यल्पत्वमहत्त्वपरिमाणात्रयत्वमसिद्धम् । अल्प

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193