________________
विविधमतस्थापकोत्थापकानुमानसङ्ग्रहः न्यत्वे सति सत्तासम्बन्धित्वात् । यथा रूपादि ॥२॥ न च द्रव्यकर्मान्यत्वमसिद्धम् । शब्दो न द्रव्यमेकद्रव्यत्वात् । रूपादिवत् ॥३॥ न चैकद्रव्यत्वमसिद्धम् । एकद्रव्यं शब्दः। सामान्यविशेषवत्त्वे सति बोकेन्द्रि(बैकेन्द्रि)यप्रत्यक्षत्वात् । रूपादिवत् ॥४॥ तथा कर्मापि न स्यादसौ । सयोगविभागाकारणत्वाद् रूपादिवत् ॥५।। इतश्च न द्रव्यं न कर्म शब्दोऽनित्यत्वे सति नियमेनाचाक्षुषप्रत्यक्षत्वात् । रसादिवत् । आत्मना व्यभिचारनिवृत्त्यर्थमनित्यत्वे सतीति विशेषणम् । तथाप्यचाक्षुषप्रत्यक्षप्रतीयमानद्रव्य-कर्मभ्यां व्यभिचारस्तन्निवृत्त्यर्थं नियमेनेति । तयोः शब्दादिवदचाक्षुषप्रत्यक्षत्वनियमासभवात् ॥६॥ तथा गव्दो द्रव्य कर्म च न स्यादसौ व्यापकद्रव्यसमवेतत्वात् सुखादिवत् ॥७॥ अतः सिद्ध द्रव्यकर्मान्यत्वे सति विशेषणम् । द्रव्यकर्मान्यत्वादित्युक्ते सामान्यादिना व्यभिचारस्तन्निवृत्त्ययं सत्तासम्बन्धित्वादित्युक्तम् । अतः सिद्ध गुणत्वेन शब्दस्य क्वचिदाश्रितत्वम् । यश्चास्याश्रयस्तत् पारिशेष्यादाकाशम् । तथाहि-न तावत् स्पर्शवतां परमाणूनां विशेषगुणोऽसावस्मदादिप्रत्यक्षत्वात् । कार्यद्रव्यरूपादिवत् ॥८॥ नापि कार्यद्रव्याणा पृथिव्यादीनां विशेषगुणोऽसौ कार्यद्रव्यान्तराप्रादुर्भावेऽप्युपजायमानत्वात् । सुखादिवत् ॥९॥ अकारणगुणपूर्वकत्वात् । इच्छादिवत् ॥१०॥ अयावद्र्व्यभावित्वात् ।।११।। अस्मदादिपुरुषान्तरप्रत्यक्षत्वे सति पुरुषान्तराप्रत्यक्षत्वात् । तद्वत् ॥१२।। स्पर्शवता हि पृथिव्यादीनां यथोक्तविपरीतगुणाः प्रतीयन्त इति । नाप्यात्मविशेषगुणोऽहङ्कारेण विभक्तग्रहणात् । आत्मान्तरग्राह्यत्वाच्च बुद्धयादीनां चात्मगुणानां तद्वैपरीत्येनोपलब्धे । नापि मनोगुणोऽस्मदादिप्रत्यक्षत्वाद् रूपादिवत् ॥ नापि दिक्कालयोर्विशेषगुण । तयोः] पूर्वापरादिप्रत्ययहेतुत्वात् । इति पारिशेष्यात् सिद्धं गगनगुणत्व शब्दस्य ।
॥ इति शब्दस्यापौद्गलिकत्वसाधकानि ।।
पौद्गलिकः शब्द इन्द्रियार्थत्वाद् रूपादिवत् ॥१॥ शब्दो द्रव्य गुण-क्रियावत्त्वाद् बाणादिवत् ॥२॥ न चास्य गुण-क्रियावत्त्वमसिद्धं गब्दस्य गुणक्रियावत्त्वसाधकप्रमाणसद्भावात् । तथाहि-गुणवान् शब्द. स्पर्शाल्पत्वमहत्त्व-परिमाण-सख्यासयोगाश्रयत्वाद् बदरामलकादिवत् ॥३॥ न तावत् स्पर्शाश्रयत्वमसिद्धम् । तथाहिस्पर्शवान् शब्दः स्वसम्बद्धार्थान्तराभिघातहेतुत्वात् । मुद्गरादिवत् ॥४॥ न चेदमसिद्धं कंसपात्र्यादिवानाभिसम्बन्धे श्रोत्राभिघातप्रतीतेः । तथा स्पर्शवान् शब्दः स्पर्शवताऽर्थेनाभिहन्यमानत्वात् तृणादिवत् ।।५॥ न चेदमप्यसिद्धम् । प्रतिवातभित्त्यादिभिः स्पर्शवद्धिस्तदभिघातप्रतीते. । नाप्यल्पत्वमहत्त्वपरिमाणात्रयत्वमसिद्धम् । अल्प