Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 50
________________ २२ अज्ञातकर्तृकः त्वात् तद्वत् ||३|| अगरीरत्वात् । सिद्धात्मवत् ||४|| ईश्वरत्रिजगन्निमित्तं न भवति । विशेषगुणाधिकरणत्वात् । व्यतिरेके दिक्कालौ || ५ || ईश्वरो भवादिनिमित्तं न भवति, अमूर्तद्रव्यत्वे सति अनिमित्तत्वादन्तरिक्षवत् । व्यतिरेके दिक्कालौ ||७|| क्षित्यादिकं बुद्धिमद्विधेयं न स्यादस्मदाद्यनवग्राह्य परिणामाधारत्वात् । व्योमवत् ||८|| विवादाध्यासितमकर्तृकं गरीराजन्यत्वात् । शरीरनिर्मितेतरत्वाद्वा । शरीरिणाऽजनितत्वात् । महा भृतत्वात् । गगनवत् ॥१२ ॥ इतीश्वरजगत्कर्तृत्वनिपेधकानि ॥ * * ३. प्रपञ्चमिथ्यात्ववादः विधिरेव तत्त्वम् । प्रमेयत्वात् । यत्तु न विधिरूपं तन्न प्रमेयम् । यथा खपुष्पम् ॥ १॥ सर्वे भावा ब्रह्मविवर्ता । सत्तैकरूपेणान्वितत्वात् । यद् यद्रूपेणान्वित तत् तदात्मकमेव । यथा मृद्रूपेणान्विता मृदात्मका एव घटादयः । सत्तैकरूपेणान्विताश्चामी तस्माद् ब्रह्म विवर्ता एव || २ || ग्रामारामादय पदार्थाः प्रतिभासान्तःप्रविष्टाः । प्रतिभासमानत्वात् । प्रतिभासस्वरूपवत् || ३ || प्रपञ्चो मिथ्या । अनात्मत्वात् '। जडत्वात् । दृश्यत्वात् । उत्पत्तिमत्त्वात् । विनाशित्वात् । यत्तु नैवं न तदेवं यथा प्ररब्रह्म ||८|| तत्र जडत्व नामाऽनात्मप्रकाशकत्वम् | असंविद्रूपत्वम् । पर्युदासात्मकं वा । दृश्यत्वं तु स्वयवहारे स्वातिरेकिस्वदर्शनापेक्षानिय तिविधिमात्रमिति । इति जडत्व-दृश्यत्वयोर्भेद । अपेक्षानिर्यातिर्दृश्यत्वमित्युक्ते स्वप्रकाशस्यापि व्यञ्जकापेक्षानियमॊऽस्त्येव व्यवहारे । तदर्थमुक्तं स्वदर्शनपदम् । तथापि स्वरूपभूतस्फुरणाsपेक्षाऽस्त्येवेति स्वातिरेकिपदम् । तथाप्यात्मन सोपाधिव्यवहारे स्वातिरेकिस्वदर्शनापेक्षाऽस्तीति तदर्थमुक्तं स्वव्यवहार इति । विधिमात्रमिति केवल विधिरूपम् । न निषेधात्मरूपम् । इति दृश्यत्वार्थ प्रमाणमालायाम् | अद्वैतवादी प्राह- अस्माकं भेदप्रतीतिव्यवस्थापर्यनुयोगवाणधारणाय बज्रवारणायमानाऽनिर्वचनीयता विजयते । ननु क्रिमिदमनिर्वचनीयत्वम् । न तावन्निर्वचनानर्हत्वम् । मूकीभावप्रसङ्गात् । नापि सद्वै - ४. शरीरप्रेरकेणात्मनानेकान्त । 1 ५. अथवाऽमूर्तद्रव्यत्वे मति परापरगुणानधिकरणत्वात् आकाशवत् । ( कालेन व्यभिचारोऽस्मिन् - हेतौ 1) ६ अनात्मत्वात् = अप्रकाशकत्वात् । अस्यानुमानस्य विपर्ययोऽयम् । यथा - परब्रह्म मिथ्या पराप्रकाकत्वात् । यत् सत्य तन् परप्रकाशक दृष्टम् यथा भानु- प्रदीपेन्द्रियज्ञान- चन्द्रादय । ७. त्राह्मन्त्रादिवदन्यव्यावृत्यात्मकं जडत्वम् । 肚

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193