Book Title: Collection Of Jaina Philosophical Tracts
Author(s): Nagin J Shah
Publisher: L D Indology Ahmedabad

Previous | Next

Page 35
________________ षड्दर्शननिर्णयः । पर्यनुयोज्या ' । ननु आगमाः प्रमाणमप्रमाणं वा। यद्यप्रमाणं कथं तर्हि आगमवलेन षट्पदार्थादिप्ररूपणा प्रमाणीक्रियते । अथ प्रमाणं तदा कथं द्वे एव प्रमाणे ?'। तस्मादागमार्थापत्त्यादीन्यपि प्रमाणानि मन्तव्यानि । अन्यथा, सर्वव्यवहारलोपात् । किञ्च, विशेषगुणोच्छेदे मोक्षस्तदा मुक्तजीवस्य सर्वज्ञानसुखयोरभावादाकाशाद्यजीवैः सह मनागपि नो भेदः । अतस्तत्त्वज्ञानादिना मोक्षमवाप्य भवन्मते जीवैरजीवैर्भाव्यं [इति] लाभमिच्छतो मूलक्षतिः । अन्यच्च । यथाऽभ्रच्छि(च्छ)न्नादित्यस्य शनैः शनैरभ्रापगमे प्रकाश' स्पष्टस्पष्टतरो भवन् सर्वाभ्रापगमे सर्वथा स्पष्ट एव स्यादेवं कर्माच्छादितस्य जीवस्य शनैः शनैः कर्मक्षये स्फुटस्फुटतरीभवज्ञानं मोक्षक्षणे सर्वकर्मक्षये सम्पूर्ण केवलज्ञानमेव जायते, न पुनः सर्वथा ज्ञानोच्छेद इति । किञ्च, परमात्मस्वरूपं पश्यतो योगिनो यथा यथा विषयोपरमैस्तथा तथा परमानन्दसुख बहुबहुतरमेव दृश्यते ततो यदा मोक्षक्षणे सर्वविषयोपरमस्तदा सर्वोत्तमं परमानन्दसुखं जायमानं केन निवार्यते । उक्तं च न्यायसारसूत्रे सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । तं वै मोक्षं विजानीयाद् दुष्प्रापमकृतात्मभि · ॥१।। श्रीजैनदर्शने रागद्वेषविनिर्मुक्तः सर्वज्ञो महोदयी भगवान् जिनो देवः । जीवाजीवादीनि नवतत्त्वानि । प्रत्यक्षपरोक्षलक्षणं प्रमाणद्वयम् । अनन्तधर्मात्मकं स्याद्वादक्रोडीकृतं सर्व वस्तु प्रमाणविषयः । सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । अत्र चैवं विचारः । ननु सम्यग्दर्शनज्ञानचारित्राणि व्यस्तानि वा समस्तानि वा व्यस्तसमस्तानि वा मोक्षमार्ग इति त्रयी गतिः । तत्र न व्यस्तानि यतो यथावस्थितजीवादिनवतत्त्वानां विस्तराद्वा संक्षेपाहाऽवबोधो ज्ञा[5 A]नम्, श्रद्धानं च दर्शनं बहूनामपि भूतं भवति भविष्यति च । न च ते चारित्रं विना मोक्षं याता यान्ति यास्यन्ति च । चारित्रमपि सर्वसावद्यत्यागलक्षणमागमोक्तत्वादभव्यानामपि भवति । न च ते सिद्धा. सिद्धयन्ति सेत्स्यन्ति च । तस्मान्न व्यस्तानि तानि मोक्षमार्गः । नापि समस्तानि, श्रीभरतचक्रवादीनां राज्यं कुर्वतामेव मोक्षप्राप्तेः । नापि व्यस्तसमस्तानि धर्मतीर्थस्याप्रवृत्ततया स्वतः परतो वा ज्ञानादीनामसम्भवेऽपि भगवन्मातृमरुदेवादीनां मोक्षस्य लाभात् । तस्मात् सर्वशुद्धशुभपरिणामपरिणत आत्मैव सम्यगज्ञानादिरत्नत्रयरूपो ज्ञातव्यः । स एव मोक्षश्चेति । उक्तं च आत्मैव दर्शनज्ञानचारित्राण्यथवा यतेः । यत् तदात्मक एवैष शरीरमधितिष्ठति ॥ १ पृच्छया । २ निवृत्ति। ३ मूर्ख ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193