Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 27
________________ 10 पण्डित श्री हंसरत्नविरचिते निश्चितं, तथा विचक्षणयाऽपि एष द्वितीयो मुग्धस्तु मत्पतिरेवाऽकुटिला-मोहात् मुग्धीभूयाऽऽयात इति निश्चित्य पत्याक्षेप-मत्सरादकुटिलां हन्मीति चिन्तितं, पुनः क्षणेन प्रथमं स्वकृतापराधं विचार्य मारणाभिप्रायं निवर्त्य तथैव स्थितौ / / - प्रतिबोधकाचार्यस्योपदेशः व्यन्तरयुगलस्य पश्चात्तापश्च अथाऽन्यदा मोहविलयोद्याने बहुविनेयगण-परिवृता ज्ञानादिगुणैः पूर्णाः प्रतिबोधकनामाऽऽचार्याः समागताः, तदागमनं श्रुत्वा ऋजुराजा सपरिकरो वन्दनार्थं गतः, क्रमेण गुरुप्रभृति-सर्व-साधून् नत्वा यथोचितं स्थानं निविष्टाः सर्वेऽपि / गुरुभिर्देशनाऽऽरब्धा"भो भव्या! दुःष्प्रायं नरत्वं लब्ध्वा संसार-स्वरूपं किम्पाकफल-प्रायं विज्ञायाऽनन्तसुखास्पदमोक्षप्रापकं ज्ञानादिरत्न-त्रयरूपं धर्मं कुरुध्वम्" इत्यादि देशनाश्रवणात् कालज्ञविचक्षणा दम्पती सम्यक्त्वं प्राप्तौ, ततस्तयोदेहमध्यात् कृष्णरक्तपरमाणुनिष्पन्ना एका पुत्रिका निर्गता, तदा तौ दम्पती स्व-स्वापराधं वदन्तौ खेदाश्रु-जलैश्चरणक्षालनं कुर्वन्तौ गुरुपादयोः पतितौ / गुरुभिरुचे- “महानुभावौ ! युवां तु अतिविशुद्धौ,'' न कश्चिदत्र भवतोर्दोषः, परं देहान्तीनाया भोगतृष्णाभिधाया अस्या पुत्रिकायाः सर्वं दुर्विलसितम् इत्याकर्ण्य तावूचतुः- “प्रभो कथमेषा दूरं याति ?'' गुरुराह- "यदा देहस्याऽ-नित्यताऽशुचितादिभावनया वैरूप्यं विभाव्यते तदैषा दूरं तिष्ठति, परं युवयोस्तु तथा भवस्वाभाव्यादेषा अस्मिन् भवे नाऽपयास्यति, परं भावनाभिरत्र भवे तनूकृता सती आगामिनि-भवे दूरं यास्यति / ततोऽत्र भवे सम्यक्त्व एव यत्नो विधेयः, काल-विलम्बेन भव्यं भविष्यति इति / " अथैवं विलोक्य ऋजु-प्रगुणाभ्यामप्यचिन्ति- यदावाभ्यां एतौ देवी-देवौ स्नुषा-पुत्रत्वेन प्रतिपन्नौ तथा मुग्धाऽकुटिलाभ्यामपि ध्यातम्- अहह महानन्यायः कृतो यच्छीलं खण्डितं इत्येवं ते चत्वारोऽपि यावत् पश्चात्तापपरास्तिष्ठन्ति, तावत् तेषां देहमध्यादेकं तेजस्विश्वेतवर्णं बालकं निर्गतं, पुन: क्षणेनैकं कृष्णवर्णं बालकं निर्गतं, पुनः कृष्णवर्ण-बालकमध्यादन्यत्कृष्णबालकं निर्गत्य यावद् वर्द्धितुं लग्नं तावत् श्वेतवर्णबालकेन शिरस्याहत्य तावदेव रक्षितं, अथैतदर्थावबोधाय राजादीन् प्रति गुरुराह'हे महानुभाव! यदेतत् श्वेतबालं तत्तु सरलत्वं, यत्प्रथमं कृष्णबालं तदज्ञानं, यच्च तन्मध्यानिर्गतं कृष्णबालकं तत् पापं, ततोऽज्ञानवशाद् भवतां यदेतत् पापं जातं तत् सरलत्वेन वर्द्धितुं न दत्तं, तावदेव रक्षितं, अतोऽतः परं सर्वाऽशुभदोषादिध्वंसी धर्मो भवद्भिः सेव्यः, यतस्तत्पापं दूरतो नश्यति'' इति गुरुवाक्यश्रवणाजातसंवेगै स्तैश्चतुर्भिरपि गुर्वन्तिके संयममाददे, क्रमेण सद्गतिभाजोऽभूवन् / एवं तैः षड्भिरपि कालविलम्बः कृतश्चेत्

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146