Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -7 115 गुरोरुपदेशात् प्रव्रजिष्यति'' इति श्रुत्वा कमलिनी हृष्टाऽभूत् / क्रमेण गर्भे प्रवर्धमाने तृतीयमासादारभ्य कमलिन्या मनसि यानि यानि गर्भानुभावाद् उत्तम-दोहदानि जज्ञिरे तानि तानि नृपः पूरयामास / क्रमेण पूर्णे गर्भकाले सुदिवसे सुमुहूर्ते प्रसूतः पुत्रो जन्मोत्सवं विधाय पित्रा पुण्डरीक इति नाम कृतम् / अत्रावसरे समुत्पन्न-केवलज्ञान-श्रीसमन्तभद्रसूरिश्चित्तरमोद्याने समवसृतस्तदा कथञ्चित् सुललितयाऽविज्ञाता-महाभद्रा-प्रवर्तिनी वन्दितुमागता / तदवसरे केनचित् सदसि राजपुत्रजन्मोत्सवादि वृत्तान्तः कथितस्तदा गुरुभिरुक्तं- "लघुकर्माऽसौ राजपुत्रः स्वल्पेनैव कालेन व्रतमादाय सदागममाराधयिष्यति" इत्यादि श्रुत्वा गुरुं नत्वा महाभद्रा पुनरुपाश्रयमागता / अन्यदा सुललिताऽपि चित्तरमोद्याने कौतुकपरागता दृष्टास्तत्र संघसमक्षं गुरवो राजपुत्रस्य गुणान् वर्ण्यमानाः पुनरुक्तं च मनुष्यगतिनगरे शुभकर्मपरिणामा-ऽनुकुल-कालपरिणतिभ्यां प्रसूतोऽसौ भव्यपुरुषः सुमतिरित्यपरनामा महागुणवान् भावीत्यादि श्रुत्वा प्रमुदितः सर्वसङ्गः सुललिता तु भावार्थमनाप्नुवन्ती व्यचिन्तयत्'अहो! एतत् तु शङ्खपुरं, तदनेन मनुष्यगतिनगरं किमुक्तं ? तथा कमलिनी-श्रीगर्भयोः स्थाने कालपरिणति-कर्मपरिणामौ जनक-जननीत्वेनोक्तौ राजपुत्रस्याऽपि भव्यपुरुषः सुमति-रित्यन्यथा नाम कृतं, कथं चैष भाविगुणजातं वेत्ति? किमेतदिति सन्देहाकुला महा-भद्रान्तिकमागत्य तत्-कारणमपृच्छत् / ततस्तामत्यन्तमुग्धामवेत्य महाभद्रया चिन्तितमयमेवाऽस्याः प्रतिबोधनोपाय इति समर्थितं युक्त्या तत्सर्वमपि उक्तं च- "भद्रे ! यस्त्वया सभा-मध्ये व्याख्यां कुर्वाणः सदागमोऽवलोकितः स भगवान् भूत-भवद्'भविष्य-भावानशेषान् जानात्येव / तत् प्रसादादेवाऽहमपि जानामि, त्वमपि विधेहि तत्सेवां यतो गुणवृद्धिः स्यादित्यादि वचोभिस्तां सदागमरागिणीं कृत्वा महाभद्रा गुर्वन्तिके समानयत्, तत् प्रभृति प्रारब्धा ताभ्यां समन्तभद्रसूरेः पर्युपासना / ___ अथ पूर्णे मासकल्पे गुरवो महाभद्रामूचुः- "भद्रे ! त्वं क्षीणजङ्घा-बलाऽसि तत स्त्वयात्रैव स्थातव्यं, प्रायः साध्व्याश्रितक्षेत्रे साधूनां स्थातुं नोचितमप्रीत्यादिदोषसम्भवादिति विहरिष्यामः पुनः समये लाभं विज्ञायाऽऽगमिष्यामः / किञ्च येन तेनोपायेन त्वया राजपुत्रः परिचितव्य" इत्याधुक्त्वा सूरयो विजहः / अथ महाभद्रा राज-पुत्रं पुण्डरीकं सस्नेहमाभाषयति, सोऽपि महाभद्रां वीक्ष्य मुदितो भवति। इत्थं कतिपयदिनैः स बालः सम्यक्-परिचितो जातः / पुनः समयमवेक्ष्य श्रीगुरवोऽत्रा-ऽऽगताः / महाभद्रा राजपुत्रं सार्थे गृहीत्वा वन्दितुमागता, उक्तं च- वत्स! अयं सदागम-गुरुरिति / " ततः पुण्डरीकेनोक्तं- "मातः ! सदागममेनं विलोक्य मम
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/222553a629136310f811b3fb067b27e0d158f0584d25ce68e38496c4b7c8f08c.jpg)
Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146