Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -7 भूतानि श्रुत्वाऽपि यदि नाऽवबुध्यसे तत् त्वमगृहीतसङ्केतेति यथार्थाभिधाऽसि, तथा बालमन्द-जडा-ऽधम-बालिशानां स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्रेन्द्रियपरवशानामधमोदक, तथा मनीषिणश्चरित्रं, तथा विचक्षणसूरि-बुधसूरि-कोविदसूरीणां चरित्राणि देशनाश्च श्रुत्वाऽपि यदि तत्त्वार्थविकलाऽसि तर्हि मनुजत्वेऽपि पशुदेश्याऽसि, तथा चित्तवृत्त्यटव्यादिस्वरूपं मम सैन्यस्वरूपं भवचक्रस्वरूपं, तथा सात्त्विकमानसपुरविवेकशैल-जैनपुर-चारित्रसैन्यादि-स्वरूपमाकाऽपि यदि ते चित्तं नाऽीभूतं, तत् त्वं गण्डोपलकल्पाऽसि, तथा च कनकशेखर-नरवाहन-विमल-हरराजाऽकलङ्कप्रमुखाणां सौजन्यं षण्णां कोविदसूरिशिष्याणां च वैराग्यकारणं श्रुत्वाऽपि यदि संसारात् नोद्विजसे? तत् त्वं सर्वथा कङ्कटुकप्रायाऽसि, तथा यत् मया पुण्योदय-पापोदयसाहाय्यात् सुखाऽसुखे लब्धे, यच्चाऽहं सिंहसूरिभवे श्रुतमदादिना सुस्थितराजाज्ञां विराध्याऽनन्तं भवभ्रमणकष्टं प्राप्तस्तदाकाऽपि यदि न प्रतिबुध्यसे तर्हि तदधिकः कस्तव प्रतिबोधोपायः? / . पुण्डरीकस्य जातिस्मरणम् हे सुललिते ! पूर्वं मदनमञ्जर्या भवे या त्वया श्री निर्मलसूरि-देशना शुश्रुवे, या च तद्भवे दीक्षाराधिता तामपि कथं न स्मरसीत्यादि प्रचोदना वचोभिरनुसुन्दरे पुनः पुनः सुललिता-प्रतिबोधयति ( सती) पूर्वानुभूतवृत्तान्तस्य पुनः पुनः श्रावणात् पुण्डरीककुमारः सञ्जातजातिस्मरणो मूर्छामाप्तस्ततो दुःखव्यग्रैः श्रीगर्भराजादिभिः शिशिरोपचारादिना सावधानीकृतः स- प्राह "तात ! सत्यमेतत् सर्वं यतस्त्वत्प्रसादादवाप्तजातिस्मरणेन दृष्टं मयाऽपि प्रागहं कुलन्धरनामा-गुणधारणस्य सखाऽभूवम् / तत्र निर्मलसूरिवचांस्याकर्ण्य व्रतं जगृहे मया, तदद्यापि संसारमसारं हित्वा व्रतमेवाऽनुष्ठेयमिति श्रुत्वा पुण्डरीकस्य माता नलिनी रोदितुं लग्ना, तदा श्रीगर्भस्तामाह- "प्रिये ! किमकारणं रोदिषि ? प्रथमत एव स्वप्नानुसारेणाऽस्माभिरिदं ज्ञातमस्ति तत्-किं न स्मरसि ? तं स्वप्नमिति," तत आवयोरपि संयम एव श्रेय इत्युक्त्वा तावपि दम्पती संयमैकचित्तावभूताम् ! अथ सुललिता साश्रुलोचना गुरुं प्रति प्राह- "भगवन् ! मया पूर्वं किं दुष्कर्मकृतं भवष्यिति ? यदुपदेश-शतेनाऽपि मे ज्ञानोदयो न भवति ? न च वैराग्य-संवेगौ प्रबलौ भवतः ? ततोऽनुसुन्दर एवाह- "भद्रे ! पूर्वं त्वया मदनमञ्जर्या भवे दीक्षामादाय ज्ञानाभ्यासे शैथिल्यं चक्रे, तद्-विपाकेन चैवं दुर्बोधा जाताऽसि, तथा च तत्र भवे पुरुषद्वेषिण्यभूस्तथाऽत्राऽपि भवे पुरषसङ्गं नेच्छसीति" श्रुत्वा सुललिता सखेदं नेत्राऽश्रूणि सृजती गुरुन् प्रति अज्ञाननाशोपायं पप्रच्छ ततोऽनुसुन्दरेणोक्तं- "राजपुत्रि ! मुञ्च
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/83a6d7880abc9cd9034f1f33c42fa280e2a09228d64ada861cff87a05b407753.jpg)
Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146