Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 134
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -7 117 प्रवर्तितः, पुन: तारुण्ये प्राप्तचक्रिपदो महारम्भ-महापरिग्रहाभ्यामाश्रेषितस्ततोऽहं हिंसावैश्वानरादिभिर्मंगयादिव्यसनीकृतः इत्थं च जाता मे चित्तवृत्त्यटवी मलिना, जाता च सुदुस्तरा प्रमत्तता-नदी, आगतं च क्रमेण सर्वमपि मोहसैन्यं मदन्तिके, चारित्रधर्म-सैन्यं तु सर्वमपि दूरीभूतम् / मोहराजेन पुनर्वासितानि राजसचित्त-तामसचित्तादिपुराणि मोहराजस्याऽविद्यामयं शरीरं पुष्टीभूतं, ततो मोहराजेन स्वपरिवारं प्रत्युक्तं- अहो वीरा ! अस्माकं भाग्यबलाद् भूयसा कालेन भव-जन्तुः पुनरस्मद्-वशे आगतोऽस्ति / प्राग् वयमनेन बहुशो हतवीर्याः कृताः स्मः तदद्याऽपि न विस्मरति, ततो भवद्भिस्तथा दृढोद्यमै व्यं यथाऽयं कदापि चारित्रधर्मादीन् स्वप्नेऽपि नेक्षते" इति, ततो मोहराजाज्ञया रागकेशरि-प्रमुखैः कर्मपरिणामराजसत्कमकुशलकर्मव-गणारूपं द्रव्यजातं ग्रांहितोऽहम्। पुनस्तैरेव दुष्टभावादिकैश्च सलोनो गृहीत्वाऽहं कर्मपरिणामनृपाय दर्शितस्ततः कुद्धः कर्मपरिणामोऽवदत्- "हंहो ! अद्य यावदेतस्य पक्षपातं कुर्वन्नभूवं, ममैव चेदनेनचौर्यमुनिष्ठतं तर्हि विडम्बना-पूर्वकमेनं वध्यभूमौ नीत्वा पापिपञ्जरे क्षेपयते" त्यादिनृपादेशं प्राप्य हृष्टैर्दुष्टाशयादिभटैः कर्मरूप मलभस्मोद्धूलिताङ्गो दत्तराजसगुणरूपगैरिकहस्तः, कृततामसगुणरूपमषीतिलकः रागपरम्परारूप-करवीरमालाऽवलम्बितगलः कुविकल्प-शरावमाला-विडम्बितोरःस्थल इत्थं कृतवध्यमण्डनोऽहं असदाचाररूप-रासभपृष्ठमारोपितस्ततः पापोद्वेगरूपपिठर-कतलं मस्तके दत्त्वा, अकुशलकर्मरूप-लोप्नं गले बद्ध्वा शब्दादि-विषयरूपेषु विस्वरपटहकाहलादिषु वाद्यमानेषु बहिरङ्गजनेषु पश्यत्सु विवेकिलोकैर्निन्द्यमानः, साधुजनैश्चाऽनुकम्प्यमानो दुष्टाशयादिराजपुरुषवेष्टितः कषायरूप-बालकैर्हस्यमानः स्वदेश-दर्शनापदेशात् महाविदेहरूपविपणिश्रेणिमध्ये भ्रमयित्वा तैर्वध्यभूमिसम्मुखं नीयमानोऽभूवम् / महाभद्रा-जातिस्मरणम् / यावच्चाऽत्राऽऽगत्य हस्तिस्कन्धादवरुह्य रक्ताशोकतले स्थितो वनशोभां पश्यन्नस्मि, . तावन्महाभद्रा मे दृष्टिपथमागता, अनयाऽपि पूर्वस्नेहात् सस्नेहमवलोकितोऽहं, ततो मया प्रणामः कृतो महाभद्रयाऽपि धर्मलाभाशीर्दत्ता उक्तं च- "राजन् ! एते दुष्टाशयाद्या राजपुरुषाः कर्मपरिणामादेशात् कृतवध्यमण्डनं त्वां वध्यभूमिं नयन्ति, कथं तन्न जानासिइति ?" तदाकार्य यावदहं तदुक्तभावार्थं विचारयामि तावत् पुनः सम्यग् मद्विलोकनात् महाभद्रा जातिस्मृति प्राप / ततो दृष्टो तया कन्दमुनि-भवादारभ्य समस्तो वृत्तान्तः / पुनस्तदेव शुभाध्यवसाय-प्राबल्यादवधिज्ञानं समुत्पेदे / तद्-बलाद्गुणधारणभवावधि ममाऽपि भवचरितमनया दृष्टं, ततो मां प्रत्युक्तं- "राजन् ! स्मरसि

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146