Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 133
________________ 116 श्री हंसविजयविरचिते महान् प्रमोदोदयो भवति, ततोऽस्य गुरोः समीपेऽहं श्रित्वाऽभ्यासं करिष्ये'' इत्युक्त्वा तदा च प्रभृति पुण्डरीकः सामायिकादि-श्रुतं पठितुं लग्नः / इत्थं हे भद्रे ! येयं महाभद्रा कन्दमुनेः जीव: प्रज्ञाविशालेत्यपरनाम्ना गुरुभिरभिधीयते, त्वं च सुललिता मदनमञ्जर्या जीवः परमार्थानभिज्ञत्वादगृहीतसङ्केतेत्युच्यते, अयं च पुण्डरीको राजपुत्रः कुलन्धरजीवो भव्यपुरुषः सुमतिरिति चोच्यते / भव्यजन्तोः तस्करावस्थादिवृत्तान्तम् अथाऽऽकर्णय मे तस्करावस्था-वृत्तान्तम्- अद्याऽत्र चित्तरमोद्याने प्रासादाग्रे सङ्घसमक्षं श्रीगुरवो यावद्धर्ममुपदिशन्ति तावदहं वनावलोकनार्थमागतो जातश्च मत्सैन्यकोलाहलस्ततो गुरुभिस्तव पुण्डरीकस्य च प्रतिबोधार्थं महाभद्रां सम्बोध्य प्रोक्तंअहो ! प्रज्ञाविशाले ! असौ संसारि-जीवश्चौरः सलोप्तो दुष्टाशयादिकैः राजपुरुषै-र्बद्धवा सर्वेषां जनानां पश्यतां मनुष्यगतिनगर्या महाविदेहरूप-चतुष्पथे भ्रमयित्वा कर्मपरिणामराजाज्ञया पाप-पञ्जरे क्षेप्तुं वध्यभूमिं नीयते / सोऽयं कोलाहलो जायते" इति / तदाऽऽकर्ण्य त्वयोक्तं- "भगवन् ! नैषा मनुष्यगतिनगरी एतत् तु शङ्खपुरं, न चैतत् चतुष्पथं किञ्च चित्तरमोद्यानं, तथाऽत्र तु श्रीगर्भो नृपो न च कर्मपरिणामस्तत्-किमेवं कथ्यते भवद्भिरिति ?" तदा गुरुभिरुक्तं- "हे अगृहीतसङ्केते ! त्वं परमार्थं नाऽवधारयसीति।" ततः पुनस्त्वया ध्यातं यदहो ! भगवता तु ममाऽप्यन्यन्नाम कृतमिति विस्मयमापन्ना तदा महाभद्रया विमृष्टं-यदुत कस्यचित् नरकगामिनो महापापिष्टस्येत्थं स्वरूपं भगवता प्रकाशितमिति ततो गुर्वादेशं गृहीत्वा मत्-प्रतिबोधार्थ मदन्तिकमायाता / उक्तं च मां प्रति- "अहो भद्र ! त्वं सदागमं शरणीकुरु येन ते चौर्यापराधसम्भवा-विडम्बना न स्यु" रित्युक्त्वाऽत्राऽऽनीतोऽहं ततो भगवन्तं दृष्ट्वाऽनिर्वाच्याऽऽनन्दोद्रेकात् मूच्र्छा प्राप्तः। पुनर्लब्धचेतनो "मा भैषी: महाभाग !" इत्यादि-वाक्यैर्गुरुभिः समाश्वासितस्ततो दुष्टाशयाद्या विडम्बका मां त्यक्त्वा दूरे स्थिताः, स्वस्थीभूतश्चाऽहम् / तदा त्वया मत्-स्वरूपं दृष्टं, ततो यद्यपि सदागमः प्रज्ञाविशाला चैतौ द्वावपि मत्-स्वरूपं जानीतस्तथापि त्वां पुण्डरीकं च प्रतिबोधयितुं मया मूलतः स्ववृत्तान्तं कथितः / भव्यजन्तोः अन्तरङ्गतस्कररूपम् ... पुनः शृणु मुग्धे ! ममाऽन्तरङ्गतस्करत्वस्वरूपं, तथाहि- नवम-ग्रैवेयकात् सुकच्छविजये क्षेमपुर्यां युगन्धर-नलिन्योः पुत्रत्वेन यदाऽहं जातस्तदा भवितव्यतया मोहादिभ्यो ज्ञापितं-यत्- "संसारिजीवः साम्प्रतं सम्यक्त्वात् पृथग् भूतोऽस्ति, सदवसरोऽस्ति युष्माकं बलस्फोरणाये" त्याकर्ण्य मोहादिभिर्बाल्यत एव मांसादि व्यसनेषु अहं

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146