Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 140
________________ 123 उपमितिभवप्रपंचाकथाद्वारे अधिकार -7 सन्नसङ्गतिं लभते, किन्तु पृथगेव दृश्यते, ततो यत्र तत्राऽपि दर्शने भावतः सर्वज्ञवचोऽनुगमादेव मुक्तिर्नान्यथा, परं तत्र लिङ्गस्य न किञ्चित् कारणं, ये च सर्वज्ञोक्तज्ञानविकला दुष्टशीला वयं ध्यानिन इति मन्यन्ते, तत् तु वचोमात्रमेव, न च विवेकिनामास्थाकारीति विदितसर्वज्ञवचसां तु ये केचन मनोनिरोधहेतवो ध्यानोपायास्ते सर्वेऽपि स्वार्थसाधका एव स्युः। यदाह स्वयं सिद्धर्षिः, यतो “यस्तीर्थिकैः प्रोक्तो यश्चोक्तो जिनशासने। भावतीर्थे स्थितस्याऽयं ध्येयभेदो न दुष्यतीति / अत एव- सव्वप्पवायमूलं दुवालसंगं जओ समक्खायं। * रयणायरतुल्लं खलु तो सव्वं सुंदरं तम्मि // 1 // पुनः पुण्डरीक आह- "भदन्त! यथा वयं जिनशासनं सर्वव्यापकं स्तुमः, तथाऽपरेऽपि तीर्थिकाः स्वस्वदर्शनानि सर्वव्यापीनि स्तुवते / किमेत-दिति?'' ततो गुरुराह- "आH ! सम्यग्दृष्टिभिरेव भावतो जैनदर्शनमवबुध्यते, ज्ञाते चाऽस्मिन् मोहमलोद्भवा-ऽभेदबुद्धयः स्वयमेव विलीयन्ते, यतो निःशेष कल्मषोज्झितोऽष्टादशदोषरहितः सर्वज्ञः सर्वदर्शी परमात्मा एक एव प्रभुरित्येवं मत्वा यः कोऽपि ब्रह्म-विष्णु-शिव-बुद्ध-जिनादिनाना-नामसु येन कोनाऽपि नाम्ना तं ध्यायति तस्य तेनैव नाम्नाऽसौ सिद्धिकृद् भवति / अविदित-परमात्मस्वरूपाणां कदाग्रहाभिनिविष्टानां तु न केनाऽपि नाम्ना कदाप्यर्थसिद्धिः स्यात् / तथा क्षान्ति-मार्दव-शौच-तपः-संयममुक्ति-सत्य-ब्रह्मा-ऽऽर्जवा-ऽऽकिञ्चन्यलक्षणो दशविधधर्म एक एव, नाऽयं कस्यचित् पितृसत्को न वाऽत्र कस्याऽपि न सम्बन्धः, केवलं य एनं जानाति सेवते च तस्यैवाऽयं यल्लोकोक्तिः 'जाह्नवी कस्य पितृसत्केति ?' इत्थं भावार्थे च बुद्धे स धर्मो जैनो वा, वैष्णवो वा, बौद्धो वा, ब्राह्मणो वा, माहेश्वरो वा निगद्यतां, यतः सत्यार्थेनैव प्रसीदन्ति सुधियो, न शब्दमात्रेण / ततश्चेदन्यतीर्थिका अप्येवं देवस्वरूपं धर्मस्वरूपं च विदित्वा स्वदर्शनं सर्वव्यापि वदेयुस्तर्हि कोऽस्ति तत्र विरोधः / अथ चेदन्य थैव ते प्रलपन्ति तर्हि कुग्रहग्रस्त बुद्धिभिर्जात्यन्ध-कल्पैस्तैर्विवाद एवाऽनर्थ-हेतुस्तदुपेक्षैव वरं तेषां, यदि वा सत्यां शक्तौ यथाकथञ्चित् तत्त्वबोधनीयास्ते सद्भिर्यतो नाऽस्त्यपरः कोऽपि तत्त्वज्ञानदानात् महोपकारः / अन्यच्च महाभाग ! यदा दृष्टिवादाऽङ्गे नय-सागरे सर्वा अपि नयदृष्टिसरित: पतन्तीति द्रक्ष्यसि तदा सर्वेऽपि ते सन्देहाः स्वयमेवाऽपयास्यन्ति ज्ञास्यसि च सर्वोत्तमं सर्वज्ञ-शासन-मित्यादिभिः श्रीगुरूक्तवचोभिः परित्यक्तसन्देहसन्दोहः श्रीपुण्डरीकमुनिर्विशेषादा-गमाभ्यास-प्रवण: क्रमेण द्वादशाङ्ग-पारगः

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146