Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 114 श्री हंसविजयविरचिते . अथ महाभद्राया समन्तभद्राभिधो ज्येष्ठभ्राताऽस्ति / सोऽन्यदा सुघोषसूरिदेशनां श्रुत्वा प्राप्तवैराग्यःसन् मातृपित्रनुज्ञाप्य व्रतं जग्राह / क्रमेणाऽसौ चतुर्दशाऽपि पूर्वाण्यधीत्य गीतार्थो जातस्ततो योग्यतां वीक्ष्य गुरुभिः सूरिपदं दत्तम् / ततोऽनेकसाधु-परिवृतोऽसौ समन्तभद्रसूरिः नैकसत्त्व-चित्ताऽवनौ बोधिबीजं वपन् वसुधातले विजहार / __ अथ महाभद्रा तु प्राप्त-तारुण्या सती पित्रा गन्धपुरे दिवाकरनृपाय परिणायिता / भवितव्यता-वशात् स नृपो मृत्युमापन्नस्तदुखात् महाभद्रा महाशोक सङ्कला जाताऽत्राऽन्तरे समन्तभद्रसूरयस्तत्राऽऽगताः / स्वभगिनीं शोकार्ती विज्ञाय देशनाभिः प्रबोध्य दीक्ष-यामासुः / क्रमेणैकादशाङ्गाधीतिजाता, ततो गुरुभिः प्रवर्तिनी-पदे स्थापिता। एकदाऽनेक-साध्वीगणवृता विहरन्ती रत्नपुरं गता / अथ तत्र पुरे मगधसेनो नृपः सुमङ्गला तद्-राज्ञी, भवितव्यता-वशाद् मदनमञ्जर्या जीवस्तस्याः कुक्षौ पुत्रीत्वेनोत्पन्नः। पितृभ्यां सुललितेति नामदत्तं, क्रमेण सा यौवनं प्राप्ताऽपि पाणिग्रहणं नाऽभिलषति / केवलं पुरुषद्वेषिणी जाता / ततस्तन्माता-पितरौ चिन्तातौ जातो, तदवसरे महाभद्राऽऽगमनं श्रुत्वा, तौ दम्पती सपरिच्छदौ सुललिता-सहितौ वन्दनार्थं गतौ / महाभद्रया देशना दत्ता / अथ सुललिता देशना-भावार्थमजानानाऽपि महाभद्रादर्शनादेव समुद्भूत-स्नेहातिरेका सुचिरं तन्मुखन्यस्तलोचना तस्थौ ततः सा पितरौ प्रत्युवाच- "हे माता-पितरौ ! भवदनुज्ञाता सती अहं प्रवर्त्तिन्याश्चरणोपासनां करिष्यामीति तदाकर्ण्य सुमङ्गला-राज्ञी तद्विरहाऽसहा रोदितुं लग्ना ततो मगधसेना-नृपो राज्ञी समाश्वास्य सुतां महाभद्रास्नेहासक्तां मत्वा गृहस्थवेषामेव तदन्तिकेऽ मुचत् / अथ महाभद्रा सुललितां नानोपदेशयुक्तिभिर्धर्मोपदेशं धर्मस्वरूपं बोधयति, तथापि सा भावार्थं नाऽवधारयति / इत्थं क्रमेण महाभदया सह नाना-ग्राम-नगराणि पश्यन्ती शखपुरमायाता / भव्यजन्तोः सदागमपार्श्वे पठनम् ___अथ शृणु भद्रे ! शङ्खपुराधीशो मम मातुल: श्रीगर्भनृपः, तत्पत्नी कमलिनी नाम्नी सा च महाभद्राया मातृष्वसा, ताभ्यां दम्पतीभ्यां सन्तानप्राप्त्यर्थम् अनकेश उपायाः कृताः। एतदवसरे कुलन्धरजीवो बहुभवभ्रमणं कृत्वाऽनुकूल भवितव्यता-वशात् कमलिन्याः कुक्षौ पुत्रत्वेन अवातरत् / तस्यामेव निशि कमलिनी स्वप्नमपश्यत् - यत् कश्चित् सुन्दराकृतिः पुमान् मन्मुखेन प्रविश्योदरमध्ये भूत्वा निर्गतस्ततः केनचित् सह यथोचितस्य स्वप्जस्य भावार्थं पृष्टो नृपः प्राह- "देवि ! ते पुत्रो भविष्यति परं स बाल्य एव कस्यचिद्
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/1f7fc183d033147faabd8e9f238705a8c518e1480e07d878117524125e083a6a.jpg)
Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146