Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 130
________________ | अथ सप्तमोऽधिकारः / ___ अनुसुन्दरचक्रिणः षट्खण्डविजयः संसारिजीवः प्राह- अथाऽऽकर्णयाऽगृहीतसङ्केते ! मम तस्करावस्था-स्वरूपं तथाहि नवमग्रैवेयकात् तद्भववेद्यगुटिका-प्रदानेन भवितव्यतया प्रेषितोऽहं मानवावास-पत्तने, तत्र महाविदेहरूप-चतुष्पथे सुकच्छा-नाम्नि विजये क्षेमपुरे युगन्धरनृपस्तद्राज्ञी नलिनी, तस्याः कुक्षौ पुत्रत्वेनाऽवतीर्णः तस्यामेव निशि नलिन्या गज-वृषभाद्याश्चतुर्दश स्वप्ना दृष्टा, माता-पितृभ्यां तत्-फलप्रश्ने कृते स्वप्नपाठकै-श्चक्रवर्ती पुत्रो भविष्यतीत्यादि फलमूचे। तच्छ्रुत्वा नन्दितौ माता-पितरौ, समये जातोऽहं पुण्योदयाऽन्वितः / पित्रा जन्ममहोत्सवं कृत्वाऽनुसुन्दर इति मदभिधा चक्रे / क्रमेण पञ्चधात्रीभिाल्यमानो जातो विद्याभ्यास-योग्यस्ततः कलाचार्योपान्ते स्वल्पकालेन शिक्षित: सकलकला: क्रमेण यौवनं प्राप्तोऽ-त्राऽन्तरे मत्-पिता युगन्धरनृपः पञ्चत्वं प्राप्तस्तस्योर्ध्वदैहिकं कृत्वा स्वपितृपदे स्थितोऽहं, सामन्तकैः प्रारब्धो मे राज्योत्सवस्तदाऽऽयुधशालायां चक्ररत्नं प्रकटीबभूव / अथ चक्रोत्पत्तिनिमित्तं अष्टाहिकामहोत्सवं विधाय निर्गतोऽहं दिग्विजयार्थ, साधितानि षडपि खण्डानि, क्रमेण जातश्चतुर्दश-रत्न-नवनिधानाधिप-स्तत: खेचर• भूचरैः सर्वैर्नृपैः सम्भूय द्वादश-वर्षाणि यावच्चक्रिपदमहोत्सवश्चक्रे / इत्थमखण्ड-षड्खण्डाधिपत्यवैभवमनुभवतो मे व्यतीतानि चतुरशीतिपूर्वलक्षाणि / साम्प्रतं वार्धक्ये पूर्व साधितानां देशानां पुनरपि दिदृक्षया निर्गतोऽहं ससैन्यः / क्रमेण नाना-देशानवलोकयन् शङ्खपुरं प्राप्तस्ततः सैन्यं पृष्ठे मुक्त्वा स्वल्पपरिच्छदोऽत्र चित्तरमोद्याने कौतुकावलोका.. र्थमागत / ___अथ शृणु भद्रे ! पूर्वं गुणधारणभवे मम धर्माचार्यः कन्दमुनिर्योऽभूत्, यच्च कुलन्धरो मे मित्रं, या च मदनमञ्जरी मम प्रिया तेषां त्रयाणामपि वृत्तान्तमाकर्णय / ___ तत्र कन्दमुनिर्भवितव्यता-वशाद् भवचक्रे भ्रमन् क्वापि स्त्रीवेदमर्जयित्वाऽत्रैव सुकच्छविजये हरिपुरे भीमरथनृप-सुभद्राराज्योः पुत्रीत्वेनाऽवतीर्णः / पितृभ्यां महाभद्रेति नाम कृतम् /

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146