Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 91
________________ 74 श्री हंसविजयविरचिते -- अथ धवल-विमलादिषु गुरुभिः सार्द्धमन्यत्र विहृतेषु पुरमागतोऽहं पूर्वकृतस्तेयाद्यपराधात् पुरजनैरूपद्रूयमाणो निःस्वामिकतया तत्र स्थातुमक्षमो देशान्तरं प्रस्थितः, तत्र क्वचित् पुरे सरलनाम्नो वणिजो हट्टे स्थितः, पृष्टं तेन मे नामाऽन्वयादिकम्, उक्तं मयाऽपि यथास्थितं, तेनाऽपि पितृनाम्ना मां कुलीनं विज्ञाय "वत्स ! अत्र मद्गृहे सुखेन तिष्ठे" त्यादिरादरः कृतः, मयाऽपि माया-प्रणयमुद्भाव्याऽद्य मे तात-दर्शनं जातमित्यादिकपटवाक्यैर्वशीकृतोऽसौ मां गृहे समानीय स्वपत्नी बन्धुमतीमित्युवाच- "प्रिये ! आवयोरपुत्रयोर्भाग्येनाऽऽनीतोऽयं वामदेवस्तत् पुत्र एव मन्तव्य" इति स्थितोऽहं तत्र, दर्शितं च तेन सर्वं धनादिकं, गतानि कतिचिद् दिनानि / अन्यदा बन्धुलनामा सरलस्य सखा षष्ठी-जागरणोत्सवे सरलमाकारयितुमागतस्तदा सरलेन मां प्रत्युक्तं-वत्स ! त्वया सावधानेन हट्टे शयितव्यम्, अहं तु जागरणार्थं यामि। मयोक्तं-"तत्राऽहमेकाकी बिभेमि, ततो गृह एव शयिष्ये" इति स्थितोऽहं गृहे, गतः सरलो मित्रगृहे। अथ निशीथे स्तेयेन प्रेरितोऽहं शनैर्गहादुत्थाय गतो हट्टे, ततो धनं गृहीत्वा क्वाऽप्यन्यत्र क्षिप्त्वा यावत् निवर्ते, तावद् दृष्टो यामिकैः, गृहीतश्च श्चौर इति कृत्वा जातो भूयान् जनकोलाहलः तदाकाऽऽयातस्तत्र सरलोऽपि पृष्टं तेन "वत्स ! किमेतत् ?" तदा मयोक्तं "तात ! त्वां विना गृहे सुप्तस्य मे निद्रा नाऽऽयाता, तदा मया ध्यातं हट्टे गत्वा पितुः शयनीये शये, यदि कथञ्चित् निद्राऽऽयाति, इति कृत्वा यावदत्राऽऽगतस्तावद् विवृतद्वारं हट्ट वीक्ष्य विलक्ष इव स्थितः / दैवात् तदैवाऽऽयातैर्यामिकैरहमेव चौरबुद्ध्या धृत" इत्याकर्ण्य निवारिता सरलेन यामिकास्तेऽपि "ज्ञातोऽस्ति चौरः प्रगे प्रादुष्करिष्यामः" इत्युक्त्वा साकूतं मदभिमुखं विलोक्य गताः / . - अथ तेषु गतेषु मया ध्यातं, यदेते यामिकाः प्रातः सलोप्नं मां गृहीष्यन्ति, ततो नश्याम्यधुनैवेति तस्यामेव निशि तद्धनमादाय नष्टो, दैवात् तैरेव यामिकैदृष्ट्वा गृहीत: सलोप्तो, यष्टि-मुष्टयादिभिर्जर्जरीकृत्य गाढं बद्ध्वा चाऽऽनीतो नृपान्तिकं, यावद् राजा मारणायाऽऽदिशति तावत् पुनः तत्राऽऽयातेन सरलेन "स्वामिन्! मम पुत्रोऽयमित्यादिविज्ञप्त्या मोचितस्तदा नृपेणोक्तं- "हे सरल ! दुष्टोऽयं त्वत्पुत्रः, न त्वद्-गृहे रक्षणोचितस्ततो वयमेनं रक्षिष्याम इति राज्ञा रक्षितोऽहं स्वमन्दिरे गृहदास्यकरणार्थम्, अन्यदा केनचिद् विद्याबलेन राजकोशाद् धने हृते पदावलोकादिभिः कथञ्चिदपि चौरमप्राप्य नृपो मामेव चौरं निश्चित्य सर्वथा पुण्योदये निष्ठिते बहुविडम्बना-पूर्वकं व्यापादयामास।

Loading...

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146