Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 113
________________ श्री हंसविजयविरचिते दूरीकृतो, बालिशेन तु रक्षितः, ततः कोविदः शुभाशुभेषु शब्देषु तोषं द्वेषं वा न धत्ते, बालिशस्तु सङ्गदास समनुन्नोऽनिष्टशब्दं द्वेष्टि, इष्टशब्दे प्रीतिं याति / श्रुतिपरवशस्य धनवाहनस्य दुर्दशा, अकलङ्कमुनेः निष्फलाः प्रतिबोधनप्रयत्नाः। ___ एकदा तुङ्गशिखराख्यबाह्यगिरौ कोविद-बालिशौ क्रीडार्थं गतौ, तत्रैकस्यां गुहायां किन्नरमिथुनगानमाकर्ण्य श्रुतिपरवशात् कोविदेन निषिद्धोऽपि बालिशस्तच्छ्वणार्थं . गुहायां प्रविष्टः / ततो मर्मावलोकन-कोपाद् रुष्टेन किन्नरेण हतो बालिशः, तद्-दृष्ट्वा प्राप्तवैराग्येन कोविदेन सदागममापृच्छ्य संयमं जगृहे / शृणु धनवाहननरेश ! सोऽहं कोविदः सदागमसेवनात् प्राप्तः स्व-स्वभावजं परमशर्म, ततोऽन्येनाऽपि सुखैषिणा सदागमसेवापरेण भाव्यमित्यादि-गुरुवचनादकलङ्कानुराधोच्च पुनरधीतं मया चैत्य- . वन्दनादिकं किञ्चिच्छुतम् / आदृता काचिद् द्रव्यश्रावकक्रिया, इत्थं मां मार्गे स्थापयित्वा अकलङ्कादिमुनिकलिताः सूरयोऽन्यत्र विजहः / कियद् दिनान्तरे पुनरपि मोहपरिग्रह-नुन्नेन त्यक्तो मया सदागमः, परिणीतानि स्त्रीणां शतानि, प्रवर्त्तितानि राज्यवृद्धितृष्णया महापापानि। दैवादत्राऽन्तरे मम प्राणेभ्योऽतिवल्लभा मदनमञ्जरी पट्टराज्ञी मृता, ततो. मोहराजभटेन शोकनाम्नाऽऽक्रान्तोऽहं, तद्वशाच्छिरोघात-रुदन-विलापादिका प्रवृत्तः / परिहृतखान-पाना-ऽलङ्कारादिपरिभोगो निःश्वासैरेव दिनानि गमयामि / अथैवं मां शोकाक्रान्तं श्रुत्वाऽकलङ्कमुनि-र्गुरुमापृच्छ्य मत्प्रतिबोधायाऽऽगतस्तेनाऽनित्य-भावनामया नानोपदेशा दत्ताः, परं तेऽन्धदीप-न्यायाद् विफलीभूताः, पुनस्तेनोक्तं- "हे धनवाहन ! मरणं प्रकृतिः शरीरिणां, विकृतिर्जीवनमुच्यते बुधैः / क्षणमप्यवतिष्ठन्ते श्वसन यदिजन्तुर्ननु लाभवानसौ // 1 // तन्न युक्तमनित्यवस्तुनि शोककरणं इत्याद्यनेकोपदेशश्रवणात् मन्दीकृतो मया शोकः, किञ्चिदपसृतौ च तदा मोह-परिग्रहौ, पुनरागतो मदन्तिके सदागमः, स्मृतं च पूर्वाधीतं श्रुतं, ततः कारितानि मया जिनभवनबिम्बप्रतिष्ठा-तीर्थयात्रा-स्नात्रोत्सवादि-द्रव्यस्तवकृत्यानि, परिहतानि च परपराभवकोप-दुर्जनसङ्ग-मृषाभाषण-स्तेय-मिथ्याभिमान- परदाराभिलाष-पराऽवर्णवादादीनि, आदृतानि च दया-ऽनुकम्पा-गुणानुराग-सुकृताऽनुमोदन-परोपकार-देवगुरुपूज्यस्वजना-नुवर्तन-शासनप्रभावन-दान-शीलादीनि, न करोमि कुलमर्यादातिक्रम, नाऽऽचरामि लोकविरुद्धं, नोद्धाटयामि परमर्मादि, करोमि साधुसेवा श्रुताभ्यास-पुस्तक पूजा-शास्त्र-श्रवणादीनि, जपामि परमेष्ठिनमस्कारं, विदधामीन्द्रियजयोद्यम, निन्दामि दुष्कृतं, सुकृतं चाऽनुमोदयामि, प्रवर्तयामि स्वदेशे न्याय-नीतिम् /

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146