Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 122
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -6 105 यद्यपि चित्तवृत्त्यटव्यास्त्वमेव स्वामी तथापि तत्रैकं मोहराज्य-सैन्यं, द्वितीयं चारित्रधर्मसैन्यं चैते उभे अप्यनादिकालीने परस्परविरोधिनी सदा तिष्ठतः / कर्मपरिणा-मस्तु डमरुकमणि-न्यायेनोभयोरपि पक्षयोर्मध्यवर्ती यदा यं पक्षं प्रबलं पश्यति तदा तमेवाऽनुसरति कर्मपरिणामस्य च पुण्योदय-पापोदयाख्यौ द्वौ सचिवौ स्तस्तत्र पापोदयस्तु त्वयि परम वैरं वहति, पुण्योदयस्तु तव हितकृदस्ति, किं वा संसारादारभ्य पापोदयस्तु त्वत्समीप एवाऽऽसीत् परं यदा यदा त्वद्विपक्षाणां मोहादीनां प्राबल्यमभूत्तदा तदा सोऽपि त्वामशरणं व्यडम्बयत् / यदा यदा च मोहादीनां शैथिल्यं चारित्रधर्मदीनां च प्राबल्यं तदा तदाऽसावलक्षितोऽतिष्ठत् / पुण्योदयश्च प्रकटीभूय सुखकृद् बभूव / तथा नन्दिवर्धनादि-भवेष्वपि भवितव्यतया नित्य-सहचरत्वात् तुभ्यं पापोदयो न दर्शितः, कदाचित्कत्वात् पुण्योदयस्तु दर्शितस्तदेवं राजन् ! यदनन्तं कालमनन्त-दुःखादितस्त्वं भ्रान्तो यच्च हिंसादीनि हितकृत्यतया प्रतिपन्नानि यच्च पुण्योदयोऽवगणितो यच्च त्वां चारित्रधर्मादींस्त्वद्धितांश्च दूरे व्यपास्य मोहराजेन चित्तवृत्त्यटव्या राज्यं गृहीतं, तदेतत् सर्वमप्यस्य दुरात्मनः पापोदयस्यैव दुर्विलसितं विद्धि / ___ अत्राऽन्तरे पुनर्मया पृष्टं- "स्वामिन्! इदानीं कथमसौ दुष्टात्मा पापोदयो मद्दूरे गत इति?'' सूरयः प्राहुः- "नरा-धिप! नाऽसौ पापोदयः स्वतन्त्रोऽस्ति, किन्तु तस्याऽपि कर्मपरिणामादीनां चतुर्णां पारतन्त्र्यमस्त्येव तदिदानीं तैश्चतुर्भिरपि प्रसन्नीभूय पुण्योदयं त्वदुपान्ते मुक्त्वा पापोदयो दूरीकृतः / अन्यच्च नन्दिवर्धनादिभवेषु विचक्षणाचार्यादिदेशनाभिरपि यत्-सदागमा-दयस्त्वया नोपलक्षिता-स्तदप्येषामेव चतुर्णां प्रातिकूल्यात् पापोदयसान्निध्याच्च / यत् पुनरिदानीं सदागमादिभिस्ते परिचयो जातस्तदेषामेवाऽनुकूल्यात् पुण्योदयसान्निध्याच्च। ततो हे राजन् ! यद्-यत् किञ्चिच्छुभं कार्यं निष्पद्यते तत्तदेभिरेव चतुर्भिः पञ्चभिर्वा सम्भूयाऽनुकूलैः सद्भिः निष्पाद्यते, तथा प्रतिकूलैः सद्भिरशुभं निष्पाद्यत" इति श्रुत्वा पुनर्मया पृष्टं- "स्वामिन् ! यद्येवं भवद्भि शुभा-ऽशुभकार्येषु कर्मपरिणामादय एव कारणतयोच्यन्ते तदाऽहं तु किं तत्राऽकिञ्चित्कर एव किमुत किञ्चिदपि ते मत्सापेक्षाः सन्तीति?" सूरिराह- राजन् ! सकल-कार्येषु त्वमेव प्रधानमसि यतस्ते कर्मपरिणामा-दयोऽपि तव योग्यता वशादेव कार्यं कुर्वते, अत एव च सकलशुभाऽशुभकार्य-कर्ता भवजन्तुरेवेत्यच्युते," पुनः पृष्टं मया- "स्वामिन् ! एतावन्त्येव कारणानि किमुता-ऽन्यदप्यस्ति किमपि कारणम् ?" ततो गुरुभिरुक्तंयथा कर्मपरिणामादयश्चत्वारः पञ्चमो भवजन्तुश्चैवं पञ्च कारणानि सन्ति, तथाऽन्यदप्यस्त्येकमुत्कृष्टं कारणं- तथाहि

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146