Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 120
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -6 103 __मुनेः देशना, श्रावक धर्मप्राप्तिः अन्यदा कुलन्धरस्य स्वप्ने त्रयः पुमांसो द्वे च स्त्रियावागत्येति प्रोचुः- "अहो! कुलन्धर! यदसौ गुणधरो नानासुखानि विलसति, तदस्माकं पञ्चानामेवानुकूलताभावादिति" तत् कुलन्धरेण मां प्रत्युक्तं, तदा मया विमृष्टं- 'यदहो ! पूर्वं कनकोदरनृपेण चत्वारि मानुषाणि दृष्टानि, साम्प्रतं तु पञ्च, तत् कोऽत्र विभेदः ?' कानि चाऽमूनि इत्यादिसन्दिग्धमना यावत् कुलन्धर-मदनमञ्जर्यादियुतः क्रीडार्थमाह्लादमन्दिरोद्याने गतस्तावद् दृष्टस्तत्रैकः कन्दनामा महर्षिस्तं नत्वा सपरिकरो निविष्टोऽहं धर्मश्रवणार्थं, मुनिना देशना दत्ता, तदाकर्णनमात्रात् सम्यक्त्व-सदागमौ मदन्तिकमागतो, निर्मलीभूता मे चित्तवृत्यटवी, क्षोभं प्राप्ता मोहादयस्ततश्च चारित्रधर्मनृपेण सद्योत्थायाऽऽदिष्टं- "यदेनां विद्याकन्यामादाय साम्प्रतं यात यूयं भवजन्तुसविधमिति / " ततः सद्बोधेनोक्तं- स्वामिन् ! अधुनाऽपि भवजन्तोः पार्श्वे पुण्योदय-सातोदयौ स्तस्ततः कालविलम्बः कर्तुं युज्यते, तावत् प्रेषयत गृहिधर्म-गुणरक्तताऽभिधौ दम्पती तदुपान्ते, इति मन्त्रिवचसा राज्ञादिष्टौ तौ दम्पती स्वपरिवारभूत-द्वादश-मानुषसहितौ मदभ्यर्णमायातौ, ततः कन्दमुनिमुखेनाऽङ्गीकृतो मया सम्यक्त्वमूल-द्वादशव्रतरूपः श्राद्धधर्मः / मदनमञ्जरी-कुलन्धरावपि सम्यक्त्वमापतुः / - अथ तदवसरे मया स्वप्नभावार्थं पृष्टः कन्दमुनिराह- "राजन् ! गम्भीरोऽस्त्येतत्स्वप्नार्थस्ततः मम गुरवो निर्मलसूरिनामान: केवलिनः सन्ति, तानापृच्छ्याऽहं ते कथयिष्यामि / यदि वा विश्वोपकार-कारिणो हि ते विहरन्तोऽत्रैवाऽऽयास्यन्तीति श्रुत्वा मुनिं नत्वा स-परिकरोऽहं गृहमायातः / कन्द-मुनिरप्यन्यत्र विजहार / निर्मलसूरिदेशना ___ अथ मां राज्येऽभिषिच्य मत्-पिता मधुवारण-नृपः परलोकमशिश्रयत् / ततोऽहं प्रकृष्टां राज्यलक्ष्मी भुञ्जानोऽपि-सम्यक्त्व-सदागमा-ऽनुभावाच्छ्राद्धधर्मं सुविशुद्धं पालयामि। इत्थं कतिपय-दिनान्तेऽन्यदा कन्दाद्यनेकसाधुसहिताः श्रीनिर्मलसूरयः पुरोद्याने समावासरन्, ततः कल्याणनाम्ना उद्यानपालकेन सूरिसमागमे कथिते हृष्टेन मया तस्मै दीनारलक्षं प्रीतिदानं दत्तं, महर्द्धया च वन्दनार्थं गतः / पञ्चाभिगमपूर्वकं त्रिप्रदक्षिणीकृत्य वन्दिता गुरवः / अथ यथोचितस्थानं निविष्टे सकलसभाजने स्वर्ण-पद्मासनाऽऽसीना: श्रीनिर्मलसूरिकेवलिनो देशनामारेभिरे- "'अहो भव्याः ! शृणुताऽस्मिन् भवचक्रनगरे प्राणिनां जैनधर्मं विना नाऽन्यत् किमपि शरणमस्ति / यतो यत्र जन्म तत्र मरणं ध्रुवम्।

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146