Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 126
________________ उपमितिभवप्रपंचाकथाद्धारे अधिकार -6 109 अन्यदा सद्बोधेन धर्मध्यान-शुक्लध्यानाभिधौ भटौ मह्यं दर्शितौ, तयोः परिचारकास्तेजः-पद्म-शुक्ललेश्याख्यास्तिस्त्रः स्त्रियश्च दर्शिताः, उक्तं च नित्यमेतत् सेवापरेण त्वया भाव्यं, ततो मया तेषां सेवा प्रारब्धा / पुनः सद्बोधेन विवेकाऽचलसानुस्थ-जैनपुरनिवासिनः शुभाऽऽशयनृपाद्याः सर्वेऽपि चारित्रधर्मसैनिका मह्यं दर्शिताः जातः क्रमेण ममैतैः सह परिचयस्ततस्ते सर्वेऽपि मे हितकारिणो बभूवुः / इत्थं सद्बोधशिक्षया विचरतो मे व्यतीताः पञ्चमासाः, ततो योग्यतां वीक्ष्याऽनुकूलकर्मपरिणामादिप्रेरितैः शुभपरिणामादिनृपैः क्षमादि-कन्या-प्रदानार्थं लग्नानि निश्चिक्यिरे / ___अत्राऽन्तरे विषयाभिलाषमन्त्रिणा मोहराजं प्रत्युक्तं- "यदधुनाऽस्माकमुद्यमकरणावसरोऽस्ति तन्न युज्यते पाद-प्रसारिका, यतः कर्मपरिणामादिभिः सर्वैः सम्भूय भवजन्तुः क्षमादिकन्या: परिणाय्यते, परिणयनानन्तरं त्वसौ समूलमस्मत्कुलमुन्मूलयिष्यतीति'' श्रुत्वा कम्पितो मोहराजः कर्मपरिणामान्तिकं गत्वाऽऽचख्यौ- "भ्रातः ! न घटते तवैवं गोत्रवृद्धस्यैतद् यद् विपक्षस्य भवजन्तोः पक्षपातं कृत्वा स्वगोत्रक्षयं कारयसीति / " ततः कर्मपरिणामेनोक्तं- "भ्रातः ! किं क्रियते ? साम्प्रतं तु भवजन्तुरनुल्लयवीर्योऽस्ति। .. प्रस्तावमन्तरा तु न युक्तं विग्रहकरणं ततो मौनमेवाश्रयध्वमिति / " ततो मोहादयो मौनमवलम्ब्य तस्थुः / __अथाऽहं तु नित्यं सद्बोध-शिक्षया प्रवर्धमानवीर्योल्लासः क्षमादिदशकन्या: परिणीय चारित्रधर्मनृपं सेवे'' इत्यादिविचारपरो यावदस्मि तावद् भवितव्यता वशात् क्षणं मत्-सकाशात् सद्बोधः पृथक् गतस्ततो मया ध्यातं "यदहो ! दुष्करं खलु चारित्रकष्टं, तुस्त्यजाश्चैते नरलोकदुर्लभाः कामभोगास्तदधुना मदनमञ्जर्या सह भोगाननुभवामि, प्रान्ते चारित्रं ग्रहिष्यामी'' त्येवं यावद् विकल्पाकुलोऽस्मि तावत् पुनरायातेन सद्बोधेनोक्तं-“मित्र किमेवं कुविकल्पान् विचिन्तयसि ? एतत् तु पाप-वेताल-दुष्टमनोयोग-पिशाचादिभिः प्रस्तावमुपलभ्य तव क्षमादि विवाहे विघ्नं कृतमस्ती' 'त्यादि शिक्षया पुनः स्थिरीकृतोऽहम्। क्षमादिभिः सह विवाहः, अष्टप्रवचनमातरः अथ मां चित्तसमाधानमण्डपमानीय दर्शित: सद्बोधेन चारित्रधर्मनृपः सपरिकरः, तेनाऽपि बहु सत्कारपूर्वकमाभाषितोऽहम् / ततः प्रणष्टा मोहादयो जाता विशुद्धा मे चित्तवृत्यटवी, प्रारब्धः सद्बोधेन दशानामपि कन्यानां विवाहोत्सवः / ततः पूर्वमष्टौ प्रवचनमातरो निमन्त्रिताः, उक्तं च मां प्रति- "मित्र ! इयं प्रथमा ईर्या-समितिः सम्मानिता सती जैनानां युग-मित-भूम्यवलोकनादिकां गमनशुद्धिं करोति / 1 / द्वितीया भाषासमितिरियं वचनशुद्धिं करोति / 2 / तृतीयैषणासमितिरियमाहारशुद्धिं विधत्ते / 3 /

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146