Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat
View full book text
________________ 102 श्री हंसविजयविरचिते गताः / ततः कनकोदरनृपस्तु वज्राहत इव विलक्षो बभूव, तथाऽहमपि सञ्जातपरमदुःखा रोदितुं लग्ना, ततः कुमार्याः प्रियसख्या लवलिकाख्ययाऽऽगत्य 'मातः! किं खेदेन ? अहमेव कुमार्या मनोऽभिप्रायं गृहीष्यामीत्यादिवाक्यैराश्वासिता / ' अथ तस्यामेव निशि राज्ञः स्वप्ने द्वाभ्यां पुरषाभ्यां स्त्रीभ्यां चाऽऽगत्य प्रोक्तं- 'राजन् ! अस्माभिश्चतुर्भिः सम्भूय महाभाग्यनिधिर्मदनमञ्जर्या वरो निर्धारितोऽस्ति / ततो न त्वया शोचितव्यमत्राऽर्थे' इत्येतत्-स्वप्न-दर्शनात् नृपः किञ्चित् स्वास्थ्यमाप / ___ अथाऽन्येधुर्लवलिकया मदनमञ्जरी पृष्टा- 'सखि ! यदि कोऽपि नरस्ते न रोचते तर्हि कोऽस्ति तवाऽभिप्राय इति ?' सा प्राह- "सखि ! न पश्यामि कमपि तथाविधं पुरुषपुङ्गवं, यत्र मनो मे स्निह्यति यदा तं लप्स्ये तदा वरिष्ये" इति तल्लवलिकया मां प्रत्युक्तं, मया राजे निवेदितं, ततो नपेणाऽपि भवत्वेवं, विलोकयतु कुमारी स्वयमेव वरमित्यादिष्ट, ततः पितुरादेशात् मदनमञ्जरी लवलिकां सहाऽऽदाय विद्याबलाद् गगनाध्व-चारिण्यनेकपुराण्यवलोकयन्ती गतेऽह्नि एतदुद्यानं समागता सती त्वन्मित्रममुं कुमारं विलोक्य सहसा प्रकटित-स्नेहातिरेक-प्रवर्द्धित-मिलनोत्कण्ठा मन्मथव्यथित-हृदया गृहमागता / ततो लवलिकामुखता तद्-विज्ञाय मुदमुद्वहन्त्या मया राज्ञे निवेदितं, प्रमुदितो नृपस्तच्छ्रुत्वा, ततः कुमारी समाश्वास्याऽत्र समागताऽहं भवतोः शुद्ध्यवलोकनार्थं, तदनगृह्णातु कुमारोऽयं मत्पुत्री पाणिग्रहणेनेति'' तस्या वचः श्रुत्वा प्रहृष्टेन कुलन्धरेणाऽऽगत्य मह्यं कथितम् / अथ मया "तथाऽस्तु" इति तद्-वचस्यङ्गीकृते प्रहृष्टा कामलता / "श्वः समागमिष्यामोऽत्र वयम्" इत्युक्त्वा स्वस्थानं गता : आवामपि प्रीतमनस्कौ गृहमाजग्मतुः / ___ अथ द्वितीयेऽह्नि यावदावां तत्रोद्याने गतौ तावदागतस्तत्र रत्नादिसमृद्धया विमानमापूर्य मदनमञ्जरी विवाह-सामग्रीं चाऽऽदाय कामलतादिपरिजनान्वितः कनकोदरखेचरपतिरपि, ततः प्रागवगणितखेचरेभ्यो मा भूदत्र कार्ये कश्चिद् विन इत्याशक्य तेन त्वरित-त्वरितं विवाहचारं कृत्वा परिणायितोऽहं मदनमञ्जरी, दत्तं च रत्नादि बहु यौतकम् / / .. अथ क्षणाऽन्तरादागता भूयांसः पूर्वाऽवगणिताः खेचरनृपाः सङ्ग्रामार्थं, परं मत्पुण्योदयानुभवात् ते मां विलोक्य, “योग्योऽयं राजहंस'' इत्युक्तिभाजः कोपं विहाय मां कनकोदरं चं समाश्लिष्य. तस्थुः / तावद् विज्ञात-तद्वृत्तान्तो मत्-पिता मधुवारणनृपोऽपि ससैन्यस्तत्राऽऽगतः, प्रमुदितः सर्वोऽपि परिजनः। अथ ते कनकोदरादयः खेचरा मत्-पितरं मां चाऽनुज्ञाप्य स्व-स्व-स्थानं गताः, वयमपि महामहेन स्वपुरं प्रविष्टास्ततोऽहं मदनमञ्जर्या सह मनोऽभीष्टान् दिव्यभोगान् भुञ्जानो विचरामि /
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/dda50d22eecc530bf8eeee9cc2e7f720d70317259e45ef299e1745d4d0886aa4.jpg)
Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146