Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 123
________________ 106 . श्री हंसविजयविरचिते. ' . जिनाज्ञा स्वरूपं महिमा च / / ___मुक्तिनगरेऽनन्तज्ञानादि-परमैश्वर्यकलितः सुस्थितनामा नृपः सार्वभौमोऽस्ति / सोऽनेकरूपोऽप्येकरूप एव गीयते / तथा बुद्ध-विष्णु-महेश्वर-निष्कल- जिनब्रह्मादिनाना-नामभिरपि स एवोच्यते / यद्यप्यसौ वीतरागत्वात् स्वयं न वाऽपि स्निह्यते, न च द्वेष्टि। तथापि स भवजन्तूनेवमाज्ञापयति- “यदहो भव्या ! यूयं चित्तवृत्त्यटव्या. हेयवस्तून्यप्राकृत्योपादेय-वस्तून्यङ्गीकुरुध्वम् / तथा मोहादिप्रत्यर्थिना सङ्गं विहाय चारित्रधर्मादीनात्महितान् सेवध्वम्- इत्येवमादिरूपा हेयोपादेयगोचरा तदाज्ञैव प्राणिनां निःशेष-सुख-दुःखानां कारणं भवति / यतस्तस्य प्रभोराज्ञाऽऽराद्धा सती सकलसुखकारणं भवति, विराद्धा तु दुःखकारणमिति / यदाहुः- 'आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च' [वितरागस्तोत्र 19/5 ] इति ततो द्वादशाङ्गी-लक्षणाया. आज्ञायाः कश्चनाऽक्षरमात्रमपि विरुद्धं भाषते, इति सोऽनन्तं कालं यावद् भवभ्रमणं करोतीति / त्वयाऽपि पूर्वं तदाज्ञा-विराधन-वशादेव महाऽऽपदोऽनुभूताः। साम्प्रतं तु तदाराधनाऽभिमुखस्यैतावान् सुखलेशः समजनि,'' इत्याज्ञा-स्वरूपं श्रुत्वाऽपि सञ्जातसन्देहेन पुनर्मया पृष्टं- "भगवन् ! अद्यापि यदि सुखलेश एवोच्यते भवद्भिस्तर्हि किमतोऽप्यधिकं जगति किमपि सुखमस्ति ?" केवल्याह- राजन् ! आसंसारं यत्त्वया नराऽमरादिभवेषु यच्चेह जन्मनि त्वया सुखमनुभूतं तत्सर्वमपि समुदितं सदाज्ञाजनित सौख्याऽनन्तभागमपि नाऽर्हति, परं तत्सुखं तु यदा त्वं क्षान्त्यादि-दश-कन्याः परिणेष्यसि तदाऽनुक्तमपि स्वयमेव ज्ञास्यसि / ' . क्षान्तयादिदशधर्मपरिचयः / अत्राऽन्तरे कन्दमुनिनोक्तं- "भगवन् ! किं नाम्न्यस्ताः कन्याः" ततः सूरिराह"चित्तसौन्दर्यपुरे शुभपरिणामो राजा तस्य निष्प्रकम्पता- चारुताऽभिधे द्वे राज्यौ, तयोः क्रमेण द्वे कन्ये क्षमा-दयाऽभिधे / तथा चोज्वलमानसपुरे शुद्धाभिप्रायनृपस्तत्पत्न्यौ क्रमेण ''सरलता-वर्यताऽऽख्यौ तयोः पुत्र्यौ नम्रता-सत्यता-नाम्न्यौ / तथा निर्मलचित्तपुरे शिष्टाभिप्राय-नृपस्तत्पन्यौ वरेण्यता-प्रधानताख्यौ तयोः पुत्र्यौ ब्रह्मरति-मुक्तता-नाम्न्यौ। तथा सम्यक्त्वाऽमात्यस्य सुदृष्टिः पत्नी, तत्-पुत्री विद्या-नाम्नी / तथा चारित्रधर्मनृपस्य विरति नाम्नी राज्ञी, तत्सुता निरीहताख्या चेति / पुनः कन्दमुनिराह- "भगवन् ! एता भवदुक्ता दशाऽपि कन्या गुणधारणनृपोऽयं कदा परिणेष्यतीति?'' ततः सूरिराह- "शृणु 1. स्थिरता -वर्य * D.L. 1 // 2. शुद्धता-पापभीरुताभिधे तत्पुत्र्यौ क्रमेण सरलता-ऽचौर्यता नाम्न्यौ - L1 //

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146