Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 97
________________ 80 श्री हंसविजयविरचिते वित्तव्ययभयात् मैथुनसङ्गं मां निषेधयति, तथापि तत्स्नेह-परवशोऽहं स्वल्प-द्रविणदानेन बालरण्डा-भिक्षुकी-प्रोषितभर्तुकाद्याः स्त्रीर्भजामि / इत्थमकार्यं कुर्वन् लोके लघुतास्पदं जातस्तथापि हरिकुमारबलेन न कोऽपि मां पराभवति / ___अथ समस्तजनपद-प्रख्यात-पराक्रमं महौजसं हरिकुमारं विलोक्याऽन्यदा नीलकण्ठनृपश्चिन्तयाञ्चकार-यदहो! वशीकृतसर्वपौर: प्रवृद्धप्रतापोऽयं हरिकुमारो मामपुत्रं हत्वा मा ग्रहीत् स्वयं राज्यमिति / ततः सुबुद्धिमन्त्रिणं रहस्याकार्य स्वभावमावेद्य यथाकथञ्चित् मारितव्योऽयमित्यादिदेश / अथ मन्त्री आज्ञा-पारवश्यात् तन्नृपवचस्तथाऽस्त्विति प्रतिश्रुत्य गृहमभ्येत्य व्यमृशत् 'अहो ! धिगस्तु राज्यलोभं, यदयं नृपः स्वपालितं पुत्रप्रायं भागिनेयं कृतजामातरं च हरिकुमारमपि निरागसं जिघांसति, महदसमञ्जसमेतत्। यद्यपि लोभान्धो नृपोऽनर्थं न पश्यति तथापि मया रक्षणीयोऽयं कुमार इति ध्यात्वा रहसि नृपस्य दुष्टाशयं कुमाराय न्यवेदयत् / ततो निर्यामिकैः समं मन्त्रयित्वा कनक-रत्नादिभिः प्रवहणान्यापूर्य मयूरमञ्जरी वसुमती च गृहीत्वा कुमारः केनाऽप्यलक्षितो निशीथे पोतमारुह्य स्वदेशं प्रति चचाल / मित्रद्रोहफलं, समुद्रे पतनं, कुप्रवृत्तयः / अथ तदवसरे वाणिज्यलोभाद् गन्तुमनिच्छन्नपि अत्याग्रहात् कुमारणाहमाकारित एकं रत्नभृतप्रवहणमादाय कुमारेण सह प्रचलितः / पवनगतिपोतारूढा नानाकौतुकान् पश्यन्तो यावद् वयमर्द्धपथमागतास्तावत् सागर-मैथुनाभ्यां प्रेरितेन मया ध्यातं"अहो ! हरिकुमारस्यैषाऽपरिमिता समृद्धिः, इयं च साक्षात् पौलोमीव मयूरमञ्जरी प्रिया, ततो यद्येनं मारयामि तदा सर्वमप्येतत् मदायत्तं भवतीति कुधिया केनचिच्छलेन महासमुद्रे क्षिप्तो मया कुमारः, समुच्छलितः पोतमध्ये जनकोलाहलः तदैव च मामनर्थकारिणं मत्वा दूरं गतो मे पुण्योदयः, हरिकुमारस्तु स्वपुण्योदयमाहात्म्यात् समुद्रदेवतया गृहीत्वा पुनः पोतमध्ये मुक्तः अहं तु क्षीणपुण्योदयस्तयैवाऽतिकोपेन भृशं ताडयित्वा, क्षमस्वाऽपराधं क्षमस्वाऽपराधमिति हरिकुमारे वदत्येव क्षिप्तोऽहं समुद्रे / हरिकुमारोऽथ कुशलेन स्वल्पदिनैः पयोधि-पारं प्राप्तस्तत्र लोकवार्त्तया पितृमरणं श्रुत्वा, आनन्दपुरे गत्वा, स्वपितृसत्कं राज्यमलञ्चकार / मदीयं रत्नप्रवहणं तेन मत्-पितुर्दत्तं, अहं तु लोलकल्लोलैर्विक्षिप्यमाणो यादोभिर्भक्ष्यमाणो यातना-शतान्यनुभवन् भवितव्यतावशात् मृतप्रायः सप्तमेऽहनि पारावरपारं प्राप्तः / तत्र शीतलवायु-सम्पर्कात् सचेतनीभूतः क्षुत्तृड्-पीडित इतस्ततः पर्यटितुं लग्नस्ततः किञ्चिद् वनफलादि भक्षयित्वा शनैः शनैर्धमन्

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146