Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 70
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 एवमन्येऽपि क्रियावादि-प्रभृतयस्त्रिषष्ट्यधिकशतत्रयमित-पाखण्डिनो निह्नवाद्याश्चोत्सूत्रप्ररूपका विरूद्ध-मार्गचारिणस्ते सर्वे चिरकालं तपःप्रभृतिक्रियां कुर्वन्तोऽपि मिथ्यात्वाऽमात्य-पराभूताः प्रत्युत संसारवृद्धिकारिणो भवन्ति / जैन साधु स्वरूपम् प्रकर्षः प्राह- "विलोक्यते तजैनपुरं, ते च मिथ्यात्वमोहाद्यपराजिता जैना जनाः इति गतौ द्वावपि अप्रमत्तता-सानुस्थं जैनपुरं, दृष्टास्तत्र जैनाः / " साधवो मोहादिबलध्वंसकाः, तान् विलोक्य विमर्शः प्राह- "वत्स ! विलोकयैते सर्वजन्तुजातहिताः हितमितसत्यवक्तारः चतुर्विधाऽदत्त-परिहारकाः दिव्यौदारिकमैथुनवर्जका:- बाह्याऽभ्यन्तरपरिग्रहविप्रमुक्ताः, स्वदेहेऽपि निःस्पृहा द्वाचत्वारिंशद्-दोषवर्जिताहार-ग्राहकाः पञ्च-समिति-त्रिगुप्ति-समुपयुक्ता मोहादि-वैरि-घातकाः एतेषां चित्तवृत्त्यटव्यपि महासुन्दरा, सदालोका अनन्तगुणरत्नसम्भवभूमिः, प्रमत्तता-सरिदपि शोषमा-गता, भग्नःचित्त-व्याक्षेपमण्डपः, पतिता तृष्णा-वेदिका इत्यादिसकल-सुखहेतु-मुदिताः सुखं तिष्ठन्त्यत्रैते / इत्यादि श्रुत्वा प्रकर्षः पुनः सविशेषं जैनपुरस्वरूपं पप्रच्छ।' जैनपुरवर्णनम् विमर्श आह- "वत्स! भवचक्रपुरमध्ये चित्तवृत्त्यटव्यामेवाऽयं विवेकनामा पर्वतः, अस्योपत्यकायां सात्त्विकमानसनगरं निर्मलचित्तादीनि बहूनि नगराण्यात्राऽन्त-र्भवन्ति / अत ये प्राणिनः सम्यग्दर्शन-सदागमोपेक्षिता मोहादिवशवर्त्तिनस्ते कदाऽपि सात्त्विकमानसादीनि पुराणि विवेक-पर्वतं वा दृष्टमपि न क्षमाः / विवेक-पर्वताऽधि.त्यकायां चेदं जैनपुरं, धन्या एवाऽत्र पुरे निवसन्ति / कर्मपरिणामराजोऽप्येषां सम-धिकाऽधिकसौंख्यप्रदः सात्त्विकपुरवास्तव्यास्तु मार्गानुसारिण इत्युच्यन्ते / जैनपुर-वास्तव्यास्ते जैना इति। ते च विवेक-पर्वतोपरिस्थाः समस्तमपि भवचक्रस्वरूपं हस्तामलकवत् पश्यन्ति / मोहादयोऽपि कदा कदा अन्तरालं विलोक्य जैनानुपद्रोतुमा-यान्ति, परं विवेकदुर्गाश्रितत्वाद् अकिञ्चित्करा एव प्रतिनिवर्तन्ते / यद्यपि मानवा-वासादिषु चतुर्ध्वपि जैना वसन्तो दृश्यन्ते / तथापि तत्त्वतस्ते जैनपुर एव सन्ति।" प्रशस्तमोहादिस्वरूपम् प्रकर्ष आह- मातुल ! किलैतेषु जैनेष्वपि मिथ्यात्वाधीनजनवत् मोहादयो दृश्यन्त एव / यदेतेऽपि जिनबिम्बादिषु मोहं दधति, स्वाध्यायकर्मणि रागिणः साधर्मिकेषु स्निह्यन्ति, शुभक्रियायां प्रीतिमन्तः, गुरुदर्शनात् हृष्यन्ति, व्रतातीचारान् द्विष्यन्ति, व्रतलोपाय क्रुध्यन्ति, प्रवचनप्रत्यनीकेभ्यो रुष्यन्ति, कर्मनिर्जरया माद्यन्ति, प्रतिज्ञा

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146