Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 69
________________ पण्डित श्री हंसरत्नविरचिते ____बौद्धास्तु दुःखा-ऽऽयतन-समुदय-मार्ग-लक्षणानि चत्वार्यार्यसत्यानि तत्त्वतया मन्यन्ते / वैभाषिक-सौत्रान्तिक-योगाचार-मध्यमा इति चत्वारस्तद् भेदाः / एतेषां चतुर्णामपि सुगतो देवता, क्षणिकाः सर्वे पदार्थाः / प्रत्यक्षमनुमानं चेति प्रमाणद्वयं, रागादिज्ञान-सन्तान-वासनोच्छेद-सम्भवा मुक्तिरिति सिद्धान्तः / मीमांसकास्तु नास्ति कश्चित्सर्वज्ञादि-विशेषणविशिष्टो जगति देवस्ततोऽपौरुषेयेभ्यो नित्येभ्यो वेदवाक्येभ्य एवार्थविनश्चयः कर्त्तव्यः / ततो वेदपाठपूर्वकं धर्मजिज्ञासा कार्येत्येवं वदन्ति / नोदना लक्षणो धर्मस्तत् प्रवर्तकं वेदवचः ‘स्व:कामो ऽग्निंयजेदि' त्यादि / प्रत्यक्षा-ऽनुमानशाब्दोपमा-ऽर्थापत्त्यभाव-लक्षणानि षट् प्रमाणानि, आत्मन्यवलयो मुक्तिरिति तेषां सिद्धान्तः / नास्तिकास्तु तावत् पुण्य-पाप-परलोक-धर्मा-ऽधर्म-जीव-स्वर्ग-मोक्षादिसर्वमप्यपलपन्ति / एतावानेवाऽयं लोकः पञ्चभूतात्मकोऽयं देहो मद्याङ्गोत्थामदशक्तिरिव भूतसमुदायोत्थमिदं चैतन्यं, देहे नष्टे इदमपि नश्यति, कुतस्तर्हि भवान्तरगतिः ? ततो दृष्टसुखपरित्यागेनाऽदृष्टे स्वर्गादौ प्रयत्नस्तु मरीचिका-धावनकल्प' इति नास्तिकानां प्रत्यक्षमेव प्रमाणं, इत्थं हे प्रकर्ष ! एते नैयायिकाद्याः पञ्चाऽपि स्व-स्वमते वाग्डम्बर-स्फोरणात् पण्डितम्मन्या अपि क्लीबा रणाङ्गगणमिव परस्पर-सट्टे प्रमाणभूमिकां नाऽऽक्रमन्ते / जैनसिद्धान्तस्वरूपम् जैनास्तु 'जीवाऽजीवाऽऽश्रव-संवर-निर्जरा-बन्ध-मोक्ष-इति-सप्त-तत्त्वानि, पुण्य-पापमील-नात् नवाऽपि / तत्र शुभाऽशुभ-कर्मणां कर्ता भोक्ता च चैतन्यलक्षणो जीवस्तद्-विपरीतोऽजीवः / सत्कर्मविपाकः पुण्यं, असत्कर्मविपाकः पापम्। मिथ्यात्वाऽविरति-कषाय-योगैर्हेतुभिर्यद्वन्धहेतुक-कर्मपुद्गलादानं तदाश्रवः, तिन्नरोधः संवरः, आत्मनः कर्मभिः संश्लेषो बन्धः, कर्मपरिशाटो निर्जरा, निर्जराया फलं मोक्षः, स तु आत्यन्तिकदेहादिवियोगलक्षणः। तथाऽज्ञानाद्यष्टादशदोषरहितो वीतरागो देवः, पञ्चमहाव्रतधरः सम्यक्त्वनिरूपको गुरुः, ज्ञान-दर्शन-चारित्ररूपरत्नत्रितय-लक्षणो धर्मः, अनन्तपर्यायात्मकं नित्याऽनित्यम् उत्पत्ति-स्थिति-विनाशमयं द्रव्यजातं, प्रत्यक्षा-ऽनुमाने द्वे प्रमाणे, ज्ञान-क्रिया-संयोगाच्च मुक्तिरिति' वदन्ति / ततो विगलित-सकल-कलङ्क-कश्मलः शाणोल्लिखित-जात्यमणिरिव सत्केवलालोकसाक्षाद्भूतसमस्तवस्तु स्वरूप: सर्वज्ञोपदिष्टत्वात् न कुत्राऽपि जैनमार्गो विच्छायतामासादयति / नैयाकिाद्यास्तु कृत्रिमकान्तिं दधन्तोऽपि काचमणय इव न परीक्षाशाणोल्लेखं सहन्ते, अत एव ते चिरं यावत् क्लिश्यमाना अपि मुक्तिं नाऽऽप्नुवन्ति /

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146