Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 60
________________ उपमितिभवप्रपंचाकथोद्धारे- अधिकार -2 43 अथ द्वेषगजेन्द्रः स्वावसरं विज्ञाय लोलाक्षस्यांऽङ्गेऽवतीर्णः, तदा खड्गमाकृष्य तेन चण्डिकाया मूर्तिर्विपाटिता / पुनस्ततोऽपि रतिललिता पूत्कुर्वन्ती पलाय्य रिपुकम्पनान्तिकमागता. / लोलाक्षोऽप्याकृष्टाऽसिस्तामन्वागतः रिपुकम्पनः पूत्कारं श्रुत्वा सचेतनीभूतः खड्गमाकृष्योत्थितो जातश्च कोलाहलः, समुत्थिताश्चाऽऽकृष्टपाणयः सर्वे. भटाः। मददर्पवशादलब्ध-स्व-परिविभागाः प्रवृत्ताः परस्परं प्रहर्तुं, निहताश्च शतशो भटाः पलायिता लोका इतस्ततः / ____ अत्राऽन्तरे विमर्शः प्रकर्ष वक्ति- "विलोकय वत्स ! आविर्भूतोऽयं द्वेषगजेन्द्रः, पश्याऽधुनाऽस्य वीर्यमिति / " पश्यतो द्वावपि तावत् निपातितो लोलाक्षो रिपुकम्पनेन, जातश्च हाहाकारः / तद्विलोक्य विमर्शः प्रकर्षमाह- "पश्य तात ! मद्य-परदाराभिलाषयोरनर्थकास्त्विम्, अत एव त्यजन्ति सुधियो मद्यं परदाराश्च / ... मिथ्याभिनिवेश-धनगर्व कृता जीवस्य दुर्दशा . ___ अथ रिपुकम्पनो भ्रातरं हत्वा स्वयं नृपो जातः, प्रवर्त्तिता जनपदे स्वाज्ञा / विमर्शप्रकर्षावपि पुरं प्रविश्य कौतुकं विलोकयतः, तदवसरे मिथ्याभिमानी रिपुकम्पनाऽङ्गे प्रविष्टः / इतश्च रिपुकम्पनस्याऽन्यया राड्या पुत्रः प्रसूतः तदभिधायकाभ्यश्चेटीभ्यो दत्तानि मुकुट-कुण्डल-ग्रैवेयकाद्याभरणानि नृपेण, मिथ्याभिमानावेशात् चिन्तितं चाऽहो ! भाग्यनिधिरहं यत् समकमेव राज्यलाभ-पुत्रलाभौ मे जाताविति / प्रारब्धः प्रतिगृहं प्रतिचत्वरं महोत्सवः, प्रमोदमेदुरं यावत् तत् समस्तं राजकुलमस्ति, तावत् मतिमोह-शोकाख्यौ द्वौ सुभटौ राजकुलं प्रविशन्तौ वीक्ष्य प्रकर्षेण पृष्टं- "मातुल ! एतौ मतिमोह-शोकौ क्व यास्यतः ?" विमर्शेणोक्तं- "राजकुले साम्प्रतमेतयोर्वारक आयातोऽस्ति ततो विलोकय एतयोविलसितमिति / " तावता एकया चेट्या नृपान्तिकमागत्योक्तं- "स्वामिन् ! कुमारस्याऽङ्गेऽस्वास्थ्यमस्ति इत्याकर्णनमात्रात् मति-मोहशोकाभ्यामाक्रान्तो नृपो दुःखपीडितमनाः पुत्राभ्यर्णमागत्य नानामन्त्र-तन्त्रौषधादि कारयितुं लग्नः, परं ते सर्वेऽप्युपाया ऊषरे वृष्टय इव विफला आसन् / क्षणान्तरे मृतः स बालस्तढुःखातॊ नृपस्तन्माता च द्वावपि दम्पती मतिमोहाविष्टौ शिरःस्फोटहृदयप्रहारार्दितौ मूच्छामाप्य मृतौ / जातं च शोकाकुलं समस्तं राजकुलं, तद् दृष्ट्वा विमर्शोऽभ्यधाद- "विलोकय वत्स ! भवचक्रनगरकौतुकम् ! प्रकर्षोऽपि साश्चर्यम्"अहह मोहसैनिकानां दुर्विलसितमित्यनेकवार्तापरौ प्रचलितौ ततोऽन्यत्र मातुल. भागिनेयौ स्थितौ च विपणि-वीथ्यां कौतुकावलोकनार्थम् /

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146