Book Title: Upmiti Kathoddhar
Author(s): Munichandrasuri
Publisher: Omkar Gyanmandir Surat

View full book text
Previous | Next

Page 41
________________ 24 . पण्डित श्री हंसरत्नविरचिते मप्रिया रत्नवती चाऽऽगताः, ते त्रयोऽपि मारिताः; अथ मत्प्राणप्रिया कनकमञ्जरी मां वारयितुमागता, साऽपि निपातिता, इत्थं च ये केचन बान्धव-प्रधानादयस्तत्राऽऽयातास्ते सर्वेऽपि पञ्चत्वं प्रापिताः / एवं क्रोधान्धोन्मत्तीभूतः चलितोऽहं गलितशिरोवेष्ट नः पतितोत्तरीयकः, श्च्युतपरीधानो, विगतवसनो, विकीर्णमूर्धजः, पिशाच इव निर्गतः पुरमध्ये / तथाविधं मां वीक्ष्य जहसुः पौरडिम्भाः, पुनः खड्गमुद्गम्य तान् हन्तुं धावितोऽहम् तदा बहुर्भिर्योधैः सम्भूय यष्ट्यादिभिर्निहत्य भूमौ पापितः, खङ्गं गृहीतं, निबिडबन्धनैर्बद्ध्वा अन्ध-कारायां क्षिप्तः, तत्रैकमासं यावत् क्षुधा-तृषाबाधितो भृशं दुःखार्तः कपाटयोः शीर्षमास्फोटयन्नपि न केनाऽपि निष्काशितः / / नन्दिवर्धनस्य कारागृहात् पलायनम्, विविधकदर्थना: एकदाऽतिश्रान्तस्य मे रात्रौ निद्राऽऽयाता, अत्राऽन्तरे दैवयोगात् मूषकैः पाशरजु कल्पिता, ततः प्रबुद्धोऽहं विगतबन्धनः सहसोत्थाय कपाटमुद्धाट्य निर्गतो बहिर्दृष्टा' च भूयसी पाश्चात्य रात्रिः, तदा प्रसुप्तेषु पौरेषु क्रोधात् स्थाने स्थाने वह्निं दत्त्वा समस्तनगरदाहोपायं कृत्वा पलायितः / ततो गतः क्वाऽप्यटव्यां पतितः / तत्र चौरधाट्यां तैर्बद्धवा नीतोऽहं पल्लीपतिपार्श्व, तेन मां दृष्ट्वा प्रोक्तं- "महाक्रूरोऽयं दृश्यते, ततो निबिडं बद्धवा रक्षणीयः, समये बब्बरकूले विक्रेष्यते'' इति नियन्त्र्य रक्षितस्तैः / . ___ अत्राऽन्तरे विभाकरनृपसैन्येन सा पल्ली भग्ना, गृहीतश्च लुण्टाकैस्सहाहमपि, लुण्टितं तेषां धन-गोधनादिकं, क्रमेण स्वपुरमागत्य दर्शितं सर्वमपि प्रत्याहृतधनादिकं सैनिकैर्विभाकरनृपाय / अत्राऽवसरे दृष्टोऽहं चौरगणमध्यस्थो विभाकरनृपेणोपलक्षितश्च नन्दिवर्धनोऽयमिति / अथ तेन पृष्टं- "भ्रातः ! नन्दिवर्धन ! केयं तवाऽवस्था ? कुतस्त्वमीदृग् सङ्कटे पतितः ?" इत्युक्त्वा बन्धनादुन्मोच्य स्वस्थीकृत्य च पृष्टो व्यतिकरं, मयाऽपि कथितं सर्वं स्ववृत्तान्तं, तच्छ्रुत्वा महादुःखं धृत्वा विभाकर आह- "हा हा भ्रातः! महाननर्थोऽयं कृतस्त्वया" इति तद्वाक्यात् पुनर्मच्चेतसि वैश्वानरो दिदीपे, तद्वशाद् विभाकरं हन्तुमिच्छन्नपि समीपे तु शस्त्राभावाद् विलक्षीभूय स्थितः / अथ विभाकरो मद्वैलक्ष्यं लक्षयित्वा तां वार्ता विहाय मां गृहे नीत्वा तैलाभ्यङ्ग-स्नानादि कारयित्वा प्रवरवस्त्रालङ्कारादिपरिधाप्य चाऽर्द्धासने न्यवेशयत् / तत्र सुखवार्तासु क्रियमाणासु मुहूर्त्तादनु भोजनावसरे जाते कृतभोजनौ यावदावां सुखगोष्ठी कुर्वाणौ स्थितौ स्वस्तावत् मतिशेखराख्यः प्रधानः समागतो, मदागमप्रहृष्टं विभाकरं वीक्ष्य मां प्रति प्राह- "हे 1. L17 संशो. / ईढा-V मूल L2 //

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146