Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
४०९
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
सादृश्यधीद्धसंस्कारजज्ञानं स्मृत्यलंकृतिः ।
खेलत्खञ्जनयुग्माजक्सस्मार सुदृङ्मुखम् ॥ १२२॥ प्रतिबिम्बिताम् । असितनिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति जनितव्रीडाहासः प्रियाहसितो हरिः' इति कुवलयानन्दे त्वयमन्योन्यभ्रान्तिमूलोऽप्युक्तः । 'पलाशमुकुलनान्त्या शुकतुण्डे पतत्सलिः । सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति' इति। यथावा रसगङ्गाधरे-'कनकद्रवकान्तिकान्तया मिलितं राममुदीक्ष्य कान्तया। चपलायुतवारिदभ्रमाननृते चातकपोतकैर्वने' । अत्र चातकगतहर्षोपस्कारकतया तद्गता भ्रान्तिरलंकारः । अत्रैव यदि 'परिफुल्लपतत्रपल्लवैर्मुमुदे चातकपोतकैर्वने' इत्युत्तरार्धे निमीयते तदायमेव भ्रान्तिध्वनिरिति । यथावा मदीये कृष्णलीलामृते-'भगवदेकरतातुरचेतसा विरहदाहवशोज्झितवाससा । उषसि राधिकया बत भानवी रुगपि चेलधियाऽचकृषे मदात्' इति ॥ १२१ ॥ एवं भ्रान्तिमत्यलंकारे निरूपिते तत्र भ्रान्तौ स्मृतेरपि केषांचिन्मते प्रयोजकत्वात्तत्प्रसङ्गात्स्मृतं स्मृत्यलंकारं लक्षयति-सदृश्येत्यादिपूर्वार्धेन । सादृश्यं उपमानोपमेययोः सुन्दरं साधयं तद्विषयिणी या धीरनुभूतिः तया वार्तमानिकया इद्धः ‘एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम्' इति नियमादुद्बुद्धो यः संस्कारः पूर्वानुभूतनिरुक्त. सादृश्यविषयकज्ञानीयसूक्ष्मावस्थाविशेषस्तेन जायत इति तथा एतादृशं यज्ज्ञानं 'अनुभूतविषयाऽसंप्रमोषाः स्मृतिः' इति पातञ्जलसूत्रात्संस्कारजन्यं ज्ञानं स्मृतिरित्यभियुक्तोक्तेश्च स्मृतिरेव प्रागुक्तान्यथानुपपत्त्या निरुक्तज्ञानविषयकज्ञानजनककाव्यप्रतिपाद्यत्वमिति यावत् । स्मृत्यलंकृतिः प्रोक्तस्मृत्यात्मकज्ञानविषयकज्ञानजनकशब्दप्रतिपाद्यत्वं स्मरणालंकारत्वमित्यन्वयः । एवंच सुन्दरसादृश्यविषयकवार्तमानिकज्ञानप्रोद्बुद्धसंस्कारजन्यज्ञानविषयकज्ञानजनकशब्दप्रतिपाद्यत्वं स्मरणालंकारसामान्यलक्षणं पर्यवसितम् । तदुक्तं रसगङ्गाधरे-'सादृश्यज्ञानोबुद्धसंस्कारप्रयोज्यं स्मरणं स्मरणालंकारः' इति । पदकृत्यानि तु प्रागुक्त दिशा खयमूह्यानि । तमुदा. हरति-खेलदित्यायुत्तरार्धेन । खेलति क्रीडति इति खेलदेतादृशं खञ्जनयुग्म खजरीटमिथुनं यस्मिंस्तादृशं यदब्जं पद्मं तत्पश्यतीति तथा एतादृशः श्रीराम इत्यर्थः । सुदृगिति । शोभने दृशौ यस्याः वैदेह्यास्तस्याः मुखं वदनं सस्मार स्मृतवानिति योजना । अत्र सुन्दरसादृश्यधीः खेलत्खजनयुग्मविशिष्टपद्मनिष्ठसुटुङ्मुखसंबन्धिसुन्दरसाधर्म्यविषयकवार्तमानिकं श्रीरामे ज्ञानं तेन प्रोबुद्धो यः संस्कार. स्तजन्यं यज्ज्ञानं सीताननविषयकस्मृत्यात्मकं तद्विषयकज्ञानजनको यःप्रकृतकाव्या त्मकःशब्दस्तत्प्रतिपाद्यत्वं प्रकृतालंकारे स्पष्टमेवेति लक्षणसमन्वयः। यथावा सरस्व. तीकण्ठाभरणे-'अदृश्यन्त पुनस्तेन खेलाः खञ्जनपतयः । अस्मर्यन्त विनिश्वस्य प्रियानयनविभ्रमाः' इति । यथावा काव्यप्रकाशे-'निम्ननाभिविवरेषु यदम्भः प्लावितं चलदृशां लहरीभिः । तद्भवैः कलरुतैः सुरनार्यः स्मारिताः सुरतकण्ठरुतानाम्' इति । यथावा प्रसन्नराघवे नाटके-'सौमित्रे ननु सेव्यतां

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576