Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
कामधेनुरत्नम् ९] सरसामोदव्याख्यासहितम् ।
अक्षरवातकावृत्तियमकं यमकं कविः।
वर्णी गृही वनी दण्डी साधयन्ति धयन्ति च ॥५॥ अप्रतिबद्धा च मतिर्विचारितसद्गुरूपदिष्टखशाखोपनिषन्महावाक्वैककरणिका चरमप्रमा तस्या हेतुभूताया इति यावत् । एवं अलाटेत्यत्रापि च्छेदः । अं विष्णु 'अकारो वासुदेवः स्यात्' इत्यभिधानालात्यात्मत्वेनादत्त इत्यलस्तत्त्वावबोधस्तदर्थमटन्ति तत्तत्तीर्थक्षेत्रशास्त्रादिषु परिभ्रमन्तीति तथा तीव्रमुमुक्षवस्ताननुलक्ष्य प्रकर्षेण तदुद्धारमात्रधिया आसनमवस्थानमेवासः सकलसंप्राप्ताद्वैततत्त्वजिज्ञासूद्धारस्त्वत्प्रसादकाधीनोऽस्त्यतस्त्वं मानं विहाय सप्रसादं मामवलोकयेत्युत्तरार्धन संबन्धः । तदुक्तं काव्यप्रकाशे-'शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः' । शब्दार्थयोरभेदेऽप्यन्वयमात्रभेदाल्लाटजनवल्लभत्वाल्लाटानुप्रासः । उदाहरणम् 'यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य' इति । इदमेवाधसमजातीययमकस्याप्युदाहरणम् । परंतूभयत्रापि नकार उत्तरार्धे यस्य सविधे दयितास्ति तस्य तुहिनदीधितिर्न दवदहनो भवतीति योज्यः । साहित्यदर्पणेऽपि 'शब्दार्थयोः पौनरुक्त्यं भेदे तात्पर्यमात्रतः । लाटानुप्रासः' इत्युक्तः । उदाहरणम्-स्मे रराजीवनयने नयने किं निमीलिते । पश्य निर्जितकन्दर्प कन्दर्पवशगं प्रियम्' इति ॥ ४ ॥ एवमेव यमकमपि लक्षयति-अक्षरेति । अक्षराणां सखरव्यञ्जनानां यो व्रातः समूह एव वातकः वाक्यं तस्य या आवृत्तिरन्यूनानतिरिक्तत्वेन पुनरुक्तिर्यत्र तादृशं काव्यं यमकमेतत्संज्ञकं भवतीति लक्षण निदेशः। अथैतदुदाहरति-यमकमित्यादिना प्राग्वदेव । एतादृशं यमकं यमयति तदेकचिन्तनेनेन्द्रियाणि नियमयति तदितरविषयेभ्यो व्यावर्तयतीति यथा स्यात्तथेत्यर्थः । एवंप्रकारेण कविः काव्यकर्ता, पक्षे अक्षरेति । अक्षराणां 'अमिमीळे पुरोहितम्' इत्यादीनां 'इषेत्वोर्जत्वा' इत्यादीनां च वेदवर्णानां यो व्रातकः सकलखशाखा. लक्षणः सङ्घः तस्य या आवृत्तिः सर्वदा ब्रह्मयज्ञादौ यथाविधिपठणसंततिस्तया ये यमाः 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः' इति पातञ्जलसूत्रप्रसिद्धा हिंसादयो निवृत्तिधर्मास्तैर्यत्कं सुखं तदित्यर्थः । यमकं यमनमेव यमकं वेदाभ्या.. सजन्या हिंसादिनिवृत्तिधर्मपरिपाके तदितरविषयपारवश्यनिरसनपूर्वकं यथा भवति तथेति यावत् । ईदृक्प्रकारेण वर्णी ब्रह्मचारी । पक्षे अक्षरेति । 'अक्षरमम्बरान्तधृतेः' इति पारमर्षसूत्रात् । 'एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु' इत्यादिश्रुतेश्च अक्षरस्य अद्वैतब्रह्मण एव ये वाताः अस्मदाद्य. दृष्टया तत्र कल्पितजन्यजगदभिन्ननिमित्तकारणत्वप्रयोजकानादिभावरूपमूलज्ञानं तेन ये वाताः सूर्यादिदेवगणास्तेषां कं सुखं येभ्यस्ते तथा एतादृशः ये यावत्काम्यनिषिद्धवर्जनपूर्वकं यावन्नित्यनैमित्तिकप्रायश्चित्तानि तेषां या आवृत्तिः पौन:पुन्येन फलाभिसंधिकर्तृत्वाभिमानराहित्येन यदनुष्ठानं तेन ये यमाः अहिंसादयः प्रागुक्ता एव तैर्यत्कं सुखं तदित्यर्थः । एतादृशं यमकं यथा स्यात्तथेत्यायग्रे

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576