Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५४२
साहित्यसारम् ।
[ उत्तरार्धे निगूढान्यरतिस्तद्वद्वितीया परिकीर्तिता। वित्तैकोपाधिकरतिस्तृतीया जगतीप्यते ॥३॥ नारदेन स्तुते विष्णौ पित्रा चाप्यनुमोदिते ।
तपः कृत्वैव गौरी तु स्वप्रेयोर्धत्वमप्यगात् ॥४॥ इति यावत् । यद्यपि पदन्यास इत्याद्यवशिष्टत्रिपादीवर्णितार्थवत्त्वं बहिरस्त्येव तथापि 'कमु कान्तौ कान्तिरिच्छेति धात्वादेः कान्तं मनोरमम्'इत्यमराच खमनोभिलषितपुरुषादेव कान्तपदाभिधेयादन्यः पुमान् चतुर्थीसमुदितः विधुरिव वरदचतुर्थीचन्द्र इवानीक्ष्योऽस्तीति दोषसामान्यादिदमपि तादृगेवेति वयैव ध्येयम् । तथाचोदाहरणद्वयमपि यथाश्रुतरीत्या चारुतरमेवेति दिक् । पक्षे अथोक्तचित्रैविध्यं व्यवहृतयेऽभिधत्ते-स्वकीयेति । चेतनजडोभयानुगतिभेदात् । तत्र प्रथमां लक्षयति-सर्वदेति । पतिदृश्यसत्तादिप्रदः सचासौ मात्रासु विषयेषु आत्मर. तिर्यया सा तथा ॥ २ ॥ एवमुद्देशक्रमानुसारेण प्रथमोद्दिष्टां खीयां संक्षेपतः संलक्ष्याथ द्वितीयां परकीयां लक्षयति-निगूढेत्यर्धेन । अन्यः पतीतरः एवं रतिरपि । तत्र वित्तानौपाधिक्येव । तेन न सामान्यायामतिव्याप्तिः । एतदनुग्राहकमेव निगूढेति । तत्रापि पतितौल्यमेव द्योतयितुं तद्वदिति । एतेन तद्रतेरपि निःसीमत्वं सूच्यते । पक्षे निगूढा अनादिभावरूपाऽवरणपिहिता आत्म. रूपा रतिः प्रीतिः 'मुत्प्रीतिः प्रमदो हर्षः' इत्यमरात्प्रत्यगानन्दो यस्यां सा तथेत्यर्थः । तद्वत्प्राग्वदेव द्वितीया परकीया अविद्यादिजडावच्छिन्नचिदिति यावत् । अथ सर्वथैव हानार्थ सामान्यामपि तां लक्षयति-वित्तैकेति । सर्वलोकप्रसिद्ध्यर्थ जगतीति । पक्षे वेत्तीति वित् तस्य भावो वित्ता सैव एकः मुख्यः उपाधिः प्रयोजको यस्यास्तादृशी रतिः प्रागुक्तप्रीत्यपरनानी चिद्रूपा मुदेव यस्यां सा तथेत्यर्थः । एवंच चिजडोभयानुगतं बिम्बप्रतिबिम्बानुगतप्रकाशवच्चिन्मात्रसुखमेव ब्रह्मास्तीति परोक्षज्ञानमन्तरा संपूर्णाद्वैतशास्त्रश्रवणं निर्णतुं नैव शक्यत इति युक्तमेवोक्तज्ञानावस्थायां सामान्यसुदृक्वमित्याशयः । ननु भवत्वेवं बन्ध. मोक्षादिसर्वव्यवहारसिद्ध्यर्थमेव भवता चित्रैविध्यमङ्गीकृतं तथापि जीवेश्वराख्य. चेतनावच्छिन्नचित एव कुतः स्वकीयात्वलक्षणं मुख्यत्वमविद्यादिजडावच्छिन्नायास्तस्याः परकीयात्वलक्षणं मध्यमत्वं चेतनजडोभयानुगतत्वावच्छिन्नायास्त. स्यास्तु सामान्यात्वलक्षणं जघन्यत्वमिति चेत्सत्यम् । चेतनयोर्जीवेश्वरयोरेव क्रमान्मोक्षफलभाक्त्वनित्यमुक्तलसत्वादविद्यादिजडस्य तु सर्वव्यवहारनिर्वाहकत्वादुभयानुगतिमध्ये चेतने चित्वेनैवातिशयान्तरासंभवेन जड एव तत्संभवेन खद्योतवत्तदङ्गत्वान्मुख्यत्वादिक्रमादुचितमेवेत्यलं पल्लवितेन ॥ ३ ॥ ननु भवत्वेवं तिसृणामपि लक्षणानि परं त्वत्र भवत्संमतान्युदाहरणानि कानीत्यतः प्रथमायाः 'तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणाम्' इति श्रुतेर्यथाशास्त्रपातिव्रत्ये साक्षात्परम्परया वा ज्ञानोत्पत्तिध्रौव्यमभि

Page Navigation
1 ... 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576