Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 575
________________ अमृतरत्नम् १२] सरसामोदव्याख्यासहितम् । गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दभ्रे । मुख्यरसनिर्णयात्मकममृताख्यं द्वादशं रत्नम् ॥ १२॥ . इति यावत् । द्वयं द्वैतम् । भाति सत्यत्वेन परिस्फुरतीत्यर्थः ॥ ११ ॥ उपनिगमयति-गोक्षीरेति ॥१२॥ श्रीगुर्वाशप्रसादेन सह तज्ज्ञैः शिवंकरः । ग्रन्थः साहित्यसारोऽयं भूयादाचन्द्रतारकम् ॥ १ ॥ इति श्रीमत्पदवाक्यप्रमाणक्षीरार्णवविहरणश्रीमदद्वैतविद्येन्दिरारमणषष्टयुपना मकश्रीमनारायणशास्त्रिगुरुवरचरणारविन्दराजहंसायमानमानसेन मो.. डकोपनानाच्युतशर्मणा विद्यार्थिना विरचितः स्वकृतसाहित्यसारखारस्यवलितसरसामोदाख्यव्याख्यानस्य द्वादशः प्रकाशः संपूर्णः ॥ १२ ॥ शाकेऽग्निबाणमुनिभूमितवर्षे खरसमाह्वयेऽपि बत । श्रावणसितदशमीज्ये पूर्णोऽभूत्पञ्चवटिकायाम् ॥ १॥ साहित्यसारसरसामोदोऽयं मीनलग्न एव निशि । हरिहरगुरुवरकृपया चिराय सर्वेष्टदो भवतु ॥ २॥ -

Loading...

Page Navigation
1 ... 573 574 575 576