Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
५५८
[ उत्तरा
साहित्यसारम् |
आद्यं शराग्निसंख्याकश्लोकं रत्नं द्वितीयकम् । मुनिरामेन्दुपद्यं च तृतीयं वह्निभूमितम् ॥ ६ ॥ चतुर्थ चन्द्रभूनेत्रश्लोकं रामर्षिपञ्चमम् । षष्ठं वेदाग्निपद्यं सप्तमं खेन्दुहप्रितम् ॥ ७ ॥ अष्टमं रसदृग्रामं नवमं खाग्निसंमितम् । दशमं शास्त्रदृक्पद्यमितमेकादशं रसैः ॥ ८ ॥ द्वादशं द्वादशश्लोक्या युतमेवं सुमेलनात् । साहित्यसारः सानङ्गानङ्गशत्यन्वितोऽभवत् ॥ ९ ॥ श्रीनारायणगुर्वङ्घ्रिपद्मयुग्मं नमाम्यहम् | यदेककृपयाहं सच्छास्त्रसौरभ्य संस्कृतः ॥ १० ॥ अद्वैतसच्चिदानन्देन्द्रपादाम्बुरुहद्वयम् । प्रणमामि न मे येन भाति कापि क्वचिद्वयम् ॥ ११ ॥
तिमपि संवर्णयति - हेरम्ब इति । सः सर्वाग्र्यपूज्यत्वेन जगद्विख्यात इत्यर्थः । एतादृशः अतएव सिद्धीति । स्वपत्नीभ्यामेवैतदभिधाभ्यामिति यावत् । तत्रापि पार्श्वति । अतएव निजेति । स्वापाङ्गेन्दीवर सहसैरित्यर्थः । अलं अत्यन्तम् । अतएव विति परमप्रेम्णैव वारंवारमर्चितमित्येतत् । एतादृशः परमानन्दावस्थापन्नोऽतएव नः अस्माननन्त दुःखिनोऽखिलजीवान्प्रतीत्यर्थः । अव्यादाध्यात्मिकादित्रिविधदुःखादपि तत्प्रागभावासह वृत्तितसनेन पालयत्वित्यर्थः । शिष्टं तु रसादिकं प्राग्वदेव ॥ ५ ॥ अथैतद्वादशरत्नानां श्लोकसंख्यानुक्रमणिकां तनोतिआद्यमित्यादिचतुर्भिः । शरेति ३५ मुनीति १३७ वह्नीति १३ ॥ ६ ॥ चन्द्रेति २११ रामेति ७३ वेदेति २३४ खेन्द्विति २१० ॥ ७ ॥ रसेति ३२६ एतत्संख्याकश्लोकात्मकमित्यर्थः । खेति ३० एतत्संख्याक श्लोक परिमितमित्यर्थः । शास्त्रेति २६ एतच्छ्लोक संख्यात्मक मस्तीत्यर्थः । रसैरिति ६ एतत्संख्यश्लोकैर्मितं परिमितमित्यर्थः ॥ ८ ॥ द्वादशमित्यादिनिगदव्याख्यातमेव । एवमित्यादि । एवं प्रागुक्तद्वादशरत्नश्लोकानां सुमेलनात्सम्यगेकीकरणादित्यर्थः। साहित्यसारः ग्रन्थोऽयम् । सानङ्गेत्यादि । अनङ्गसंख्याकत्रयोदशश्लोकैः सहिता एतादृशी या अनङ्गशती अनङ्गशब्देन त्रयोदशसंख्याकानां शतानां समाहारस्तथा तया अन्वितः । परिमितत्वेन विशिष्ट इत्यर्थः । अभवदिति योजना ॥ ९ ॥ अथाद्वैत विद्यागुरुचरणौ प्रणमति - श्रीति । उत्तरार्धपठितय• च्छब्दानुरोधादिह तदित्यध्याहार्यम् । सच्छास्त्रेति । सच्छास्त्रमद्वैतशास्त्रमेव ॥ १० ॥ अथ श्रीमत्सद्गुरुपादपद्मद्वयं प्रणमति - अद्वैतेति । इहेन्द्रपदादग्रे सरखतीपदं द्रष्टव्यम् । येनोक्तपादपद्मप्रणामेनेत्यर्थः । क्वापि देशे क्वचिदपि काल

Page Navigation
1 ... 572 573 574 575 576