Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji
View full book text
________________
अमृतरत्नम् १२]
सरसामोदव्याख्यासहितम् ।
५५७
श्रीकुचस्पर्शसुखितं वीक्ष्य नारायणं मुहुः । हृदि के न प्रहृष्यन्ति सर्वदुःखनिरासतः ॥३॥ वैदेह्यपाङ्गसंश्लिष्टो दृष्टो यैरद्वयाकृतिः। रघुवीरस्त एवेह कृतकृत्या भवन्त्यलम् ॥ ४॥ हेरम्बोऽव्यात्स नः सिद्धिबुद्धिभ्यां सुनिषेवितः ।
पार्श्वगाभ्यां निजापाङ्गनीलोत्पलशतैरलम् ॥५॥ यिष्यन्नखिलजगदुपादानत्वेन महामायापरमात्मलीलाविग्रही श्रीमदुमामहेश्वरावेव वर्णयति-जयत इति । कावपि अवाङ्मनसगम्यत्वेनाचिन्त्यमहिमानावित्यर्थः । एतादृशौ । तत्रापि अन्योन्येति । परस्परालिङ्गनानन्दितावितियावत् । तत्रापि वेदान्तेति । उपनिषद्वाचामप्यगोचरीभूतकान्ती इत्यर्थः । अतएव अनन्तेति । असंख्यातसौन्दर्यादिसद्गुणमात्राभरणरमणीयावित्यर्थः । एतादृशौ दंपती जाया. पती जयतः सर्वोत्कर्षेण वर्तमानौ भवत इति योजना । अत्र कावपीति तद्वर्णने खासामर्थ्य, अन्योन्येति संभोगशृङ्गारे समानुरागकत्वम् , वेदान्तेति निरति. शयचिदेकवरूपत्वम् , अनन्तेत्यपरिमितरूपलावण्यादिमत्त्वं च निरुक्तदंपत्योर्यो. त्यते। तेनेह स्वकीयैकालम्बितः परस्पराश्लेषानुभावितः परस्परमुखनिरीक्षणो. द्दीपितः परस्परस्पर्शसुखसहकृतश्च समानुरागकः खकीयाविषयकत्वेनोत्तमतमः परस्परनिरतिशयरत्याख्यस्थाय्येव परिपुष्टः परिकराद्यलंकारतः प्राधान्येन ध्व. न्यते । तेनेदमुत्तमोत्तममेव काव्यम् । तल्लक्षणादिकं तु प्रागुक्तदिशा स्वयमेवोयम् । यथावा गोवर्धनसप्तशत्याम्-'उन्नालनाभिपङ्केरुह इव येनावभाति शंभुरपि । जयति पुरुषायितायास्तदाननं शैलकन्यायाः' इति ॥ २ ॥ एवं पार्वतीपरमेश्वरयोर्वस्तुतोऽखण्डाद्वैतब्रह्मानन्दरूपत्वेन शान्तं निरुक्तभक्तानुग्रहार्थप्रकटितोक्तलीलाविग्रहविशेषादिमत्त्वेन शृङ्गारविशेषं च संवण्यैवं लक्ष्मीनारायणयोरपि तं तथा वर्णयति-श्रीति । लक्ष्म्यालिङ्गनानन्दितमित्यर्थः । एतादृशं नारायणं श्रीविष्णुं मुहुः · सगुणध्यानाभ्यासमहिना वारंवारमित्यर्थः । हृदि निश्चलीकृतचित्ते वीक्ष्य प्रत्यक्षतामिव नीत्वा । सर्वेति परमानन्दरूपस्य तस्य निरुक्तसगुणध्यानविशेषेणापि वस्तुमाहात्म्यानिखिलदुःखोन्मूलनेनेतियावत्। के पु. रुषाः न प्रहृष्यन्ति। अपितु सर्वेप्यानन्दिता एव भवन्तीति भावः । शिष्टं त्विह पूर्वपद्योक्तविधयेवोह्यमिति दिक् ॥ ३ ॥ एवं श्रीगुर्वभिनत्वेन श्रीराममपि वर्णयतिवैदेहीति । सीतादृगन्तालिङ्गित इत्यर्थः । तत्र हेतुः । अद्वयेति।निरुपमरमणीयः पक्षे उन्मनीकटाक्षितः । तत्रापि हेतुः अद्वयेति । अद्वैतब्रह्मरूपः अतएव । रध्विति । रलयोः सावाल्लघवोऽल्पप्रज्ञा अपि वीराः संसारसंग्रामविजयिनो येन स तथेत्यर्थः । यैः पुरुषैः पूर्वपुण्यपरिपाकादृष्टः साक्षात्कृतस्त एवेह संसारे । अलमत्यन्तं कृतकृत्या भवन्तीति संबन्धः । अन्यत्तूक्तमेव ॥ ४ ॥ एवमेव श्रीगणप

Page Navigation
1 ... 571 572 573 574 575 576