Book Title: Sahityasaram
Author(s): Achyutrai, Vasudev Lakshman Shastri
Publisher: Tukaram Javaji

View full book text
Previous | Next

Page 572
________________ साहित्यसारम्। [ उत्तरार्धे अमृतरत्नम् १२ । नायकं सुनिरूप्यैवं रसं संवर्णयाम्यहम् । सूत्रधार इव प्रौढं विदुषां मोदसिद्धये ॥१॥ जयतो दंपती कावप्यन्योन्याश्लेषतोषितौ । वेदान्तवाण्यगम्याभावनन्तगुणभूषणौ ॥२॥ एवमेकादशं चन्द्राभिधं नायकप्रतिपादकं रत्नं द्वितीयाचन्द्रस्यैव सर्ववन्द्यत्वेन तत्वध्वननार्थ संक्षिप्याथामृतसंज्ञं द्वादशं रसरत्नमपि तदेकोपजीव्यत्वेन तादृगे. वारभमाणस्तयोः संगतिमाह-नायकमिति । अहं ग्रन्थकारः। एवं प्रागुक्तरीत्या नायकं निरुक्तलक्षणं सुनिरूप्य सयुक्तिकं प्रतिपाद्य प्रौढं प्रधानं सात्विकराजसत्वसात्विकसात्विकत्वाभ्यां चतुर्थरत्ने प्रतिपादितं स्वकीयैकविषयं सं. भोगशृङ्गार तथा शान्तं च सूत्रधार इव विदुषां मोदसिद्धये संवर्णयामीत्यन्वयः। प्रौढमिति नायकविशेषणमपि तेन निरुक्तनायकत्रिप्रकारकत्वमात्रप्रतिपादने हेतुर्योत्यते । पक्षे नाटके हि सूत्रधारः प्रसिद्ध एव सकलनाटकपात्रप्रवेशपूर्वरङ्गादिव्यवस्थापकः शैलूषविशेषः । स यथा प्रौढं निखिलनायकगुणवत्त्वेन सर्वस. भ्यसंमतमित्यर्थः । एतादृशं नायकं सुनिरूप्य । एवं प्रौढमेव रसं शृङ्गारवीरान्यतरम् । विदुषां सदस्यानां मोदसिद्धये हर्षलब्ध्यर्थं वर्णयति प्रारभते इति लोके प्रसिद्धमेव तथाहमपि संवर्णयामीयेतत् ॥ १ ॥ अथ प्रतिज्ञातं रसं वर्ण १ 'अयमभिप्राय:-संविच्छ्रीविलासार्थमिति प्रथमरत्नोक्तप्रयोजनकस्यास्य ग्रन्थस्य मुक्तमुमुक्षूभयानुग्राहकत्वात्तदुपयुक्तत्वेन मुख्यमित्यर्थः । तत्र हेतुः-सात्विकेत्यादि । उक्तरूपरसस्य सात्विकराजसस्य सरसमुमुक्षूपयुक्तत्वं निरुक्तरूपस्य सात्विकसात्विकस्य तु मुक्तोपयुक्तत्वं द्रष्टव्यम् । तत्राद्यं तूक्तं बृहद्योगवासिष्ठे स्थितिप्रकरणे षष्टितमसर्गे-'संभवन्तीह पुरुषा राम राजससात्विकाः । प्रविचार्य समायाता मन्तव्यं चेह तद्धिया ॥ प्राधान्येन सामायाता ये पदात्परमात्मनः। दुर्लभाः पुरुषा राम ते महागुणशालिनः' इति । उपशमप्रकरणेऽपि 'पुरा कतिपयान्येव भुक्त्वा जन्मानि राघव । अस्मिन्जन्मनि यो मुक्तस्तस्माद्राजससात्विकः ॥ जातोसौ वृद्धिमभ्येति पार्वणश्चन्द्रमा इव । कुटजं प्रा. वृषीवैनं सौभाग्यमनुगच्छति ॥' टी-सौभाग्यं साधनचतुष्टयं, कुजपक्षे पुष्पश्रीः 'यस्येदं जन्म पाश्चात्यं तमाश्वेव महामते । विशन्ति विमला विद्या मुक्ता वेणुमिवोत्तमम् । आर्य ताहृयता मैत्री सौम्यता करुणाज्ञता । समाश्रयन्ति तं नित्यमन्तःपुरमिवाङ्गनाः । यः कुर्वन्सर्वकार्याणि पुष्टे नष्टेऽथ तत्फले। समः सन्सर्वकार्येषु न तुष्यति न शोचति । तमांसीव दिवा यान्ति तत्र द्वन्द्वानि संक्षयम् । शरदीव घनास्तत्र गुणा गच्छन्ति शु. द्धताम् ॥ पेशलाचारमधुरं सर्वे वाञ्छन्ति तं जनाः। वेणुं मधुरनिध्वानं वने वनमृगा इव ॥ नरं पाश्चात्यजन्मानमेवंप्राया गुणश्रियः । जातमेवानुधावन्ति बलाका इव वा. रिदम्' इति । अन्त्यं तु प्रसिद्धमेव सर्वत्रेति दिक् ।

Loading...

Page Navigation
1 ... 570 571 572 573 574 575 576